अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 40
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
रोहि॑तो लो॒को अ॑भव॒द्रोहि॒तोऽत्य॑तप॒द्दिव॑म्। रोहि॑तो र॒श्मिभि॒र्भूमिं॑ समु॒द्रमनु॒ सं च॑रत् ॥
स्वर सहित पद पाठरोहि॑त: । लो॒क: । अ॒भ॒व॒त् । रोहि॑त: । अति॑ । अ॒त॒प॒त् । दिव॑म् । रोहि॑त: । र॒श्मिऽभि॑: । भूमि॑म् । स॒मु॒द्रम् । अनु॑ । सम् । च॒र॒त् ॥२.४०॥
स्वर रहित मन्त्र
रोहितो लोको अभवद्रोहितोऽत्यतपद्दिवम्। रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत् ॥
स्वर रहित पद पाठरोहित: । लोक: । अभवत् । रोहित: । अति । अतपत् । दिवम् । रोहित: । रश्मिऽभि: । भूमिम् । समुद्रम् । अनु । सम् । चरत् ॥२.४०॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 40
विषय - परमात्मा और जीवात्मा के विषय का उपदेश।
पदार्थ -
(रोहितः) सर्वजनक [परमेश्वर] (लोकः) लोकोंवाला [सब लोकों का स्वामी] (अभवत्) हुआ, (रोहितः) सर्वोत्पादक [ईश्वर] ने (दिवम्) सूर्य को (अति) अत्यन्त करके (अतपत्) तापवाला किया। (रोहितः) सर्वस्रष्टा [ईश्वर] ने (रश्मिभिः) [सूर्य की] किरणों से (भूमिम्) भूमि और (समुद्रम्) अन्तरिक्ष [आकाशस्थ चन्द्र तारागण आदि लोकसमूह] को (अनु) अनुकूलता से (सं चरत्) संचारवाला किया ॥४०॥
भावार्थ - परमेश्वर ने सब लोकों का स्वामी होकर सूर्य द्वारा उन में ताप पहुँचाकर उनमें घूमने और चलने की शक्ति दी है ॥४०॥
टिप्पणी -
४०−(रोहितः) सर्वोत्पादकः (लोकः) लोक-अर्शआद्यच्। लोकवान्। सर्वलोकस्वामी (अभवत्) (रोहितः) (अति) अत्यन्तम् (अतपत्) तापवन्तं कृतवान् (दिवम्) सूर्यम् (रोहितः) (रश्मिभिः) सूर्यकिरणैः (भूमिम्) (समुद्रम्) अन्तरिक्षम्-निघ० १।३। (अनु) आनुकूल्येन (सम्) सम्यक् (चरत्) अडभावः, अन्तर्गतण्यर्थः। अचरत्। अचारयत्। चालितवान् ॥