अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
सु॒खं सू॑र्य॒ रथ॑मंशु॒मन्तं॑ स्यो॒नं सु॒वह्नि॒मधि॑ तिष्ठ वा॒जिन॑म्। यं ते॒ वह॑न्ति ह॒रितो॒ वहि॑ष्ठाः श॒तमश्वा॒ यदि॑ वा स॒प्त ब॒ह्वीः ॥
स्वर सहित पद पाठसु॒ऽखम् । सूर्य॑ । रथ॑म् । अं॒शु॒ऽमन्त॑म् । स्यो॒नम् । सु॒ऽवह्नि॑म् । अधि॑ । ति॒ष्ठ॒ । वा॒जिन॑म् । यम् । ते॒ । वह॑न्ति । ह॒रित॑: । वहि॑ष्ठा: । श॒तम् । अश्वा॑: । यदि॑ । वा॒ । स॒प्त । ब॒ह्वी: ॥2.७॥
स्वर रहित मन्त्र
सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम्। यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥
स्वर रहित पद पाठसुऽखम् । सूर्य । रथम् । अंशुऽमन्तम् । स्योनम् । सुऽवह्निम् । अधि । तिष्ठ । वाजिनम् । यम् । ते । वहन्ति । हरित: । वहिष्ठा: । शतम् । अश्वा: । यदि । वा । सप्त । बह्वी: ॥2.७॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 7
विषय - परमात्मा और जीवात्मा के विषय का उपदेश।
पदार्थ -
(सूर्य) हे सूर्य ! [लोकों के चलानेवाले पिण्डविशेष] (सुखम्) सुख से चलनेवाले, (अंशुमन्तम्) तेजोमय, (स्योनम्) आनन्ददायक (सुवह्निम्) भले प्रकार ले चलनेवाले, (वाजिनम्) बलवाले (रथम्) रथ [गति विधान] पर (अधि तिष्ठ) अधिष्ठाता हो। (यम्) जिस [रथ] को (ते) तेरी (सप्त) सात [शुक्ल, नील पीत आदि वर्णवाली-मन्त्र ४] (बह्वीः) बहुत सी [भिन्न-भिन्न वर्णोंवाली], (वहिष्ठाः) अत्यन्त बहनेवाली [शीघ्रगामी] (हरितः) आकर्षक किरणें, (यदि वा) अथवा (शतम्) सौ [असंख्य] (अश्वाः) व्यापक गुण [घोड़े समान] (वहन्ति) ले चलते हैं ॥७॥
भावार्थ - सृष्टिकर्ता परमेश्वर ने जैसे प्रत्येक सूर्यमण्डल को अनेक लोकों की स्थिति के लिये रचा है, वैसे ही उसने मनुष्य को अनेक प्राणियों के पालन के लिये बनाया है ॥७॥
टिप्पणी -
७−(सुखम्) सुखेन गच्छन्तम् (सूर्य) रविमण्डल (रथम्) म० ६। गतिविधानम् (अंशुमन्तम्) तेजोमयम् (स्योनम्) सुखप्रदम् (सुवह्निम्) सुवोढारम् (अधि तिष्ठ) आरोह (वाजिनम्) बलवन्तम्। अन्यत् पूर्ववत्-म० ६ ॥