अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 42
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
आ॒रोह॑न्छु॒क्रो बृ॑ह॒तीरत॑न्द्रो॒ द्वे रू॒पे कृ॑णुते॒ रोच॑मानः। चि॒त्रश्चि॑कि॒त्वान्म॑हि॒षो वात॑माया॒ याव॑तो लो॒कान॒भि यद्वि॒भाति॑ ॥
स्वर सहित पद पाठआ॒ऽरोह॑न् । शु॒क्र: । बृ॒ह॒ती: । अत॑न्द्र: । द्वे इति॑ । रू॒पे इति॑ । कृ॒णु॒ते॒ । रोच॑मान: । चि॒त्र: । चि॒कि॒त्वान् । म॒हि॒ष: । वात॑म्ऽआया: । याव॑त: । लो॒कान् । अ॒भि । यत् । वि॒ऽभाति॑ ॥२.४२॥
स्वर रहित मन्त्र
आरोहन्छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः। चित्रश्चिकित्वान्महिषो वातमाया यावतो लोकानभि यद्विभाति ॥
स्वर रहित पद पाठआऽरोहन् । शुक्र: । बृहती: । अतन्द्र: । द्वे इति । रूपे इति । कृणुते । रोचमान: । चित्र: । चिकित्वान् । महिष: । वातम्ऽआया: । यावत: । लोकान् । अभि । यत् । विऽभाति ॥२.४२॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 42
विषय - परमात्मा और जीवात्मा के विषय का उपदेश।
पदार्थ -
(शुक्रः) वीर्यवान्, (अतन्द्रः) निरालसी, (रोचमानः) प्रकाशमान [परमेश्वर] (बृहतीः) बड़ी [दिशाओं] में (आरोहन्) ऊँचा होता हुआ (द्वे) दो (रूपे) रूपों [जङ्गम और स्थावर जगत्] को (कृणुते) बनाता है, (यत्) जब (चित्रः) अद्भुत (चिकित्वान्) समझनेवाला, (महिषः) महान् (वातमायाः) वायु में व्याप्तिवाला [परमेश्वर] [उन] (लोकान् अभि) लोकों पर [व्यापक है] (यावत्) जिनको (विभाति) वह चमकाता है ॥४२॥
भावार्थ - वह जगदीश्वर सब दिशाओं में सर्वश्रेष्ठ होकर, पवन आदि में चेष्टा देता हुआ सबका अधिष्ठाता है, सब मनुष्य उसी की आज्ञा पर चलें ॥४२॥
टिप्पणी -
४२−(आरोहन्) अधितिष्ठन् (शुक्रः) वीर्यवान् (बृहतीः) महतीर्दिशाः (अतन्द्रः) निरलसः (द्वे रूपे) जङ्गमस्थावररूपे जगती (कृणुते) सृजति (रोचमानः) प्रकाशमानः (चित्रः) अद्भुतः (चिकित्वान्) कित ज्ञाने-क्वसु। ज्ञानवान् (महिषः) महान् (वातमायाः) वात+आ+अव गतौ-असुन्, सुगागमः। वायुव्याकः (यावतः) यत्संख्याकान् (लोकान्) (अभि) प्रति (यत्) यदा (विभाति) विभापयति। प्रकाशयति ॥