अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 31
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
अ॒र्वाङ्प॒रस्ता॒त्प्रय॑तो व्य॒ध्व आ॒शुर्वि॑प॒श्चित्प॒तय॑न्पत॒ङ्गः। विष्णु॒र्विचि॑त्तः॒ शव॑साधि॒तिष्ठ॒न्प्र के॒तुना॑ सहते॒ विश्व॒मेज॑त् ॥
स्वर सहित पद पाठअ॒र्वाङ् । प॒रस्ता॑त् । प्रऽय॑त: । वि॒ऽअ॒ध्वे । आ॒शु: । वि॒प॒:ऽचित् । प॒तय॑न् । प॒त॒ङ् । विष्णु॑: । विऽचि॑त्त: । शव॑सा । अ॒धि॒ऽतिष्ठ॑न् । प्र । के॒तुना॑ । स॒ह॒ते॒ । विश्व॑म् । एज॑त् ॥२.३१॥
स्वर रहित मन्त्र
अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन्पतङ्गः। विष्णुर्विचित्तः शवसाधितिष्ठन्प्र केतुना सहते विश्वमेजत् ॥
स्वर रहित पद पाठअर्वाङ् । परस्तात् । प्रऽयत: । विऽअध्वे । आशु: । विप:ऽचित् । पतयन् । पतङ् । विष्णु: । विऽचित्त: । शवसा । अधिऽतिष्ठन् । प्र । केतुना । सहते । विश्वम् । एजत् ॥२.३१॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 31
विषय - परमात्मा और जीवात्मा के विषय का उपदेश।
पदार्थ -
(परस्तात्) दूर से लेकर (अर्वाङ्) समीप में वर्तमान, (व्यध्वे) विविध मार्ग में (प्रयतः) फैला हुआ, (आशुः) शीघ्रगामी, (विपश्चित्) बुद्धिमान्, (पतयन्) पराक्रम करता हुआ, (पतङ्गः) ऐश्वर्यवान्, (विष्णुः) सर्वव्यापक (विचित्तः) विविध प्रकार अनुभव किया गया, (शवसा) बल से (अधितिष्ठन्) अधिष्ठाता होता हुआ [परमेश्वर] (केतुना) अपनी बुद्धिमत्ता से (एजत्) चेष्टा करते हुए (विश्वम्) सब [जगत्] को (प्र सहते) जीत लेता है ॥३१॥
भावार्थ - हे विद्वानो ! उस सर्वत्र वर्तमान महाबलवान् परमात्मा की उपासना से व्यवहारकुशल होकर अपने आत्मा को बली और महान् बनाओ ॥३१॥
टिप्पणी -
३१−(अर्वाङ्) अवरे समीपे वर्तमानः (परस्तात्) दूरात् (प्रयतः) यमु-क्त। विस्तृतः (व्यध्वे) उपसर्गादध्वनः। पा० ५।४।८५। इत्यच्। विविधे मार्गे (आशुः) शीघ्रगामी (विपश्चित्) मेधावी (पतयन्) पराक्रमं कुर्वन् (पतङ्गः) ऐश्वर्यवान् (विष्णुः) सर्वव्यापकः (विचित्तः) विविधं ज्ञातः (शवसा) बलेन (अधितिष्ठन्) अधिष्ठाता सन् (केतुना) प्रज्ञया (प्र सहते) पराजयते (विश्वम्) सर्वं जगत् (एजत्) चेष्टमानम् ॥