अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 53
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - पुरोबार्हतानुष्टुप्
सूक्तम् - भूमि सूक्त
द्यौश्च॑ म इ॒दं पृ॑थि॒वी चा॒न्तरि॑क्षं च मे॒ व्यचः॑। अ॒ग्निः सूर्य॒ आपो॑ मे॒धां विश्वे॑ दे॒वाश्च॒ सं द॑दुः ॥
स्वर सहित पद पाठद्यौ: । च॒ । मे॒ । इ॒दम् । पृ॒थि॒वी । च॒ । अ॒न्तरि॑क्षम् । च॒ । मे॒ । व्यच॑: । अ॒ग्नि: । सूर्य॑: । आप॑: । मे॒धाम् । विश्वे॑ । दे॒वा: । च॒ । सम् । द॒दु॒: ॥१.५३॥
स्वर रहित मन्त्र
द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः। अग्निः सूर्य आपो मेधां विश्वे देवाश्च सं ददुः ॥
स्वर रहित पद पाठद्यौ: । च । मे । इदम् । पृथिवी । च । अन्तरिक्षम् । च । मे । व्यच: । अग्नि: । सूर्य: । आप: । मेधाम् । विश्वे । देवा: । च । सम् । ददु: ॥१.५३॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 53
Subject - The Song of Mother Earth
Meaning -
May the heaven, this vast earth, this expansive firmament, heat and light, sun, waters, and all divinities of nature and humanity of the world bless me with holy intelligence and good will.