अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 15
स्वमे॒तद॑च्छायन्ति॒ यद्व॒शां ब्रा॑ह्म॒णा अ॒भि। यथै॑नान॒न्यस्मि॑ञ्जिनी॒यादे॒वास्या॑ नि॒रोध॑नम् ॥
स्वर सहित पद पाठस्वम् । ए॒तत् । अ॒च्छ॒ऽआय॑न्ति । यत् । व॒शाम् । ब्रा॒ह्म॒णा: । अ॒भि । यथा॑ । ए॒ना॒न् । अ॒न्यस्मि॑न् । जि॒नी॒यात् । ए॒व । अ॒स्या॒: । नि॒ऽरोध॑नम् ॥४.१५॥
स्वर रहित मन्त्र
स्वमेतदच्छायन्ति यद्वशां ब्राह्मणा अभि। यथैनानन्यस्मिञ्जिनीयादेवास्या निरोधनम् ॥
स्वर रहित पद पाठस्वम् । एतत् । अच्छऽआयन्ति । यत् । वशाम् । ब्राह्मणा: । अभि । यथा । एनान् । अन्यस्मिन् । जिनीयात् । एव । अस्या: । निऽरोधनम् ॥४.१५॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 15
Subject - Vasha
Meaning -
When the seekers of divine knowledge and speech come to the treasurehold of free speech and knowledge, in fact they come to their own rightful treasure. In such cases, its hoarding and refusal to give is just another way of torturing them for a crime they have not committed.