Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 4
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - अग्निर्देवता छन्दः - निचृत् गायत्री, स्वरः - षड्जः
    17

    वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्त॒ꣳ समि॑धीमहि। अग्ने॑ बृ॒हन्त॑मध्व॒रे॥४॥

    स्वर सहित पद पाठ

    वी॒तिहो॑त्र॒मिति॑ वी॒तिऽहो॑त्रम्। त्वा॒। क॒वे॒। द्यु॒मन्त॒मिति॑ द्यु॒ऽमन्त॒म्। सम्। इ॒धी॒म॒हि॒। अग्ने॑। बृ॒हन्त॑म्। अ॒ध्व॒रे ॥४॥


    स्वर रहित मन्त्र

    वीतिहोत्रन्त्वा कवे द्युमन्तँ समिधीमहि । अग्ने बृहन्तमध्वरे ॥


    स्वर रहित पद पाठ

    वीतिहोत्रमिति वीतिऽहोत्रम्। त्वा। कवे। द्युमन्तमिति द्युऽमन्तम्। सम्। इधीमहि। अग्ने। बृहन्तम्। अध्वरे॥४॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 4
    Acknowledgment

    सपदार्थान्वयः -

    हे कवे ! सर्वज्ञ क्रान्तप्रज्ञ ! अग्ने !=जगदीश्वर ज्ञानस्वरूपेश्वर ! वयमध्वरे मित्रभावे बृहन्तं सर्वेभ्यो महान्तं सुखवर्धकमीश्वरं द्युमन्तं द्यौर्बहुप्रकाशो विद्यते यस्मिंस्तं वीतिहोत्रं वीतयो विज्ञापिता होत्राऽऽख्या यज्ञा येनेश्वरेण तं परमेश्वरं [त्वा] त्वां समीधीमहि सम्यक् प्रकाशयेमहि । इत्येकः

     

    वयमध्वरे अहिंसनीये यज्ञे वीतिहोत्रं वीतयः प्राप्तिहेतवो होत्राख्या यज्ञक्रिया भवन्ति यस्मात्तं भौतिकं द्युमन्तं द्यौर्बहुप्रकाशो विद्यते यस्मिँस्तं बृहन्तं बृहतां कार्याणां साधकं भौतिकं कवे=कवि क्रान्तदर्शनं भौतिकं त्वा=तम् अग्ने=भौतिकमग्निं प्राप्तिहेतुं भौतिकं समिधीमहि सम्यक् प्रकाशयेमहि ॥ इति द्वितीयः ॥ २ । ४ ॥

    पदार्थः -

    (वीतिहोत्रम्) वीतयो विज्ञापिता होत्राख्या यज्ञा येनेश्वरेण । यद्वा वीतयः प्राप्तिहेतवो होत्राख्या यज्ञक्रिया भवन्ति यस्मात्तं परमेश्वरं भौतिकं वा । वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु । इत्यस्य रूपम् (त्वा) त्वां तं वा । अत्र पक्षे व्यत्ययः (कवे) सर्वज्ञ क्रान्तप्रज्ञ, कवि क्रान्तदर्शनं भौतिकं वा (युमन्तम्) द्यौर्बहुप्रकाशो विद्यते यस्मिंस्तम् । अत्र भूम्न्यर्थे मतुप् (सम्) सम्यगर्थे (इधीमहि) प्रकाशयेमहि । अत्र बहुलं छन्दसीति श्नमो लुक् (अग्ने) ज्ञानस्वरूपेश्वर प्राप्तिहेतुं भौतिकं वा (बृहन्तम्) सर्वेभ्यो महान्तं सुखवर्धकमीश्वरं बृहतां कार्याणां साधकं भौतिकं वा (अध्वरे) मित्रभावेऽहिंसनीये यज्ञे वा ॥ अयं मंत्रः श०१।३।४।६॥४॥

    भावार्थः -

    [हे.....अग्ने=जगदीश्वर ! वयं—[त्वा]=त्वां समिधीमहि]

    अत्र श्लेषालङ्कारः ॥ यावन्ति क्रियासाधनानि क्रियया साध्यानि च वस्तूनि सन्ति

    तानि सर्वाणीश्वरेणैव रचयित्वा ध्रियन्ते,

    [ तात्पर्यमाह--]

    मनुष्यैस्तेषां सकाशाद् गुणज्ञानक्रियाभ्यां बहव उपकाराः संग्राह्याः ॥ २ । ४ ॥

    विशेषः -

    परमेष्ठी प्रजापतिः । अग्नि=ईश्वरः, भौतिकश्वा। निचद् गायत्री। षड्जः ।

    इस भाष्य को एडिट करें
    Top