यजुर्वेद - अध्याय 2/ मन्त्र 14
ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः
देवता - अग्निः सर्वस्य
छन्दः - अनुष्टुप्,भूरिक् आर्ची गायत्री
स्वरः - गान्धारः
7
ए॒षा ते॑ऽअग्ने स॒मित्तया॒ वर्ध॑स्व॒ चा च प्यायस्व। व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि। अग्ने॑ वाजजि॒द् वाजं॑ त्वा संसृ॒वासं॑ वाज॒जित॒ꣳ सम्मा॑र्ज्मि॥१४॥
स्वर सहित पद पाठए॒षा। ते॒। अ॒ग्ने॒। स॒मिदिति॑ स॒म्ऽइत्। तया॑। वर्ध॑स्व। च॒। आ॒। च॒। प्या॒य॒स्व॒। व॒र्धि॒षी॒महि॑। च॒। व॒यम्। आ। च॒। प्या॒सि॒षी॒म॒हि॒। अग्ने॑। वा॒ज॒जि॒दिति॑ वाजऽजित्। वाज॑म्। त्वा॒। स॒सृ॒वास॒मिति॑ स॒सृ॒वास॑म्। वा॒ज॒जित॒मिति॑ वाज॒ऽजित॑म्। सम्। मा॒र्ज्मि॒ ॥१४॥
स्वर रहित मन्त्र
एषा तेऽअग्ने समित्तया वर्धस्व चा च प्यायस्व । वर्धिषीमहि च वयमा च प्यासिषीमहि । अग्ने वाजजिद्वाजन्त्वा ससृवाँसँ वाजजितँ सम्मार्ज्मि ॥
स्वर रहित पद पाठ
एषा। ते। अग्ने। समिदिति सम्ऽइत्। तया। वर्धस्व। च। आ। च। प्यायस्व। वर्धिषीमहि। च। वयम्। आ। च। प्यासिषीमहि। अग्ने। वाजजिदिति वाजऽजित्। वाजम्। त्वा। ससृवासमिति ससृवासम्। वाजजितमिति वाजऽजितम्। सम्। मार्ज्मि॥१४॥
विषयः - अग्निना यज्ञे कथमुपकारो ग्राह्य इत्युपदिश्यते ।
सपदार्थान्वयः -
हे अग्ने !=जगदीश्वर परमेश्वर! ते=तव यैषा प्राप्तिहेतुः समित्=वेदविद्या सम्यगिध्यते दीप्यतेऽनया सा विद्या अस्ति तया विद्यया अस्माभिः स्तुतः संर्स्त्व वर्धस्व चाऽस्मान् नित्यं वर्धय।
हे भगवन् ! एवं भवद्विदितगुणैरस्माभिः प्रकाशितः संस्त्वं [आ+] प्यायस्व चाऽस्मान् नित्यं व्यापय।
हे अग्ने !=भगवन् ज्ञानस्वरूप विजयप्रदेश्वर! वाजजित् वाजं सर्वस्य वेगं जयति स ईश्वरो वाजं ज्ञानवन्तं ससृवांसं सर्वं ज्ञानवन्तं [वाजजितम्] यो वाजं सङ्ग्रामं जयति तं त्वा त्वां वयं विद्यावन्तो धार्मिका वर्धिषीमहि।
कृपया भवान् चाऽस्मानपि वाजजितः सस्रुषो वाजान् करोतु । यथा वयं विद्यावन्तो धार्मिका भवन्तम् [आ] समन्तात् प्यासिषीमहि तथैव भवाँश्चाऽस्मान् सर्वैः शुभगुणैराप्यायताम् ।
अहं भवन्तमाश्रित्य सम् +मार्ज्मि=भवदाज्ञाऽनुष्ठानेन शुद्धो भवामि। इत्येकः ॥
या एषा प्रदीप्तिहेतुः ते=अस्य तस्य अग्नेर्षर्द्धिका समित् सम्यगिध्यते दीप्यतेऽनया सा काष्ठादिः अस्ति, तया समिधा चाऽयं [वर्धस्व] =वर्धते आप्यायते च । वयं विद्यावन्तो धार्मिका [त्वा] =तं वाजं
वेगवन्तं ससृवांसं शिल्पविद्यागुणप्राप्तिमन्तं वाजजितम्=अग्निं येन वाजं सङ्ग्रामं जयति तं वर्धि- षीमहि आ समन्तात् प्यासिषीमहि च ।
यतोऽयं शिल्पविद्यासिद्धैर्विमानादिभियानैर्वाजान् सस्रुषो वाजजितोऽस्मान् विजयेन वर्धयति, [त्वा] =तमहं सम्+मार्ज्मि सम्यक् शोधयामि। इति द्वितीयः ॥ २ । १४ ॥
पदार्थः -
(एषा) प्रदीप्तिहेतुः (ते) तव तस्य वा (अग्ने) परमेश्वर ! भौतिको वा (समित्) सभ्यगिध्यत=दीप्यतेऽनया सा विद्या काष्ठादिर्वा (तया) विद्यया समिधा वा (वर्धस्व) वर्धते वा। सर्वत्रांत्यपक्षे व्यत्ययो लडर्थे लोट् च (च) समुच्चये (आ) क्रियायोगे (च) पुनरर्थे (प्यायस्व) प्यायते वा (वर्धिषीमहि) स्पष्टार्थम् (च) समुच्चये (वयम् ) विद्यावन्तो धार्म्मिकाः (आ) समन्तात् क्रियायोगे (च) अन्वाचये (प्यासिषीमहि) अत्र प्यैङ्धातोः सिबुत्सर्गश्छन्दसि॥अ॰ ३।१।३४॥ अनेन वार्तिकेन सिप्प्रत्ययः (अग्ने) ज्ञानस्वरूपविजयप्रदेश्वर ! भौतिको वा (वाजजित्) वाजं=सर्वस्य वेगं जयति स ईश्वरः । वाजं जयति येन वा स भौतिकः (वाजम्) ज्ञानवन्तं वेगवन्तं वा (त्वा) त्वां तं वा (ससृवांसम्) सर्वं ज्ञानवन्तं शिल्पविद्यागुणप्राप्तिमन्तं वा (वाजजितम्) यो येन वा वाजं=संग्रामं जयति तम् (सम्) सम्यगर्थे (मार्ज्मि) शुद्धो भवामि शोधयामि वा ॥ अयं मंत्रः श० १ । ८ । ४-६ व्याख्यातः ॥ १४ ॥
भावार्थः -
[क्रियाद्वयाभिप्रायमाह--]
अत्र श्लेषालङ्कारः ॥ क्रियाद्वयं चादरार्थं विज्ञेयम् ।
ये मनुष्याः परमेश्वराज्ञापालने क्रियाकौशले च वर्द्धन्ते ते विद्यायां सर्वानानन्दयित्वा दुष्टान् शत्रून् जित्वा शुद्धा भूत्वा सुखयन्ति; नेतरेऽलसाः ।
चकार चतुष्टयेनेश्वराज्ञा धा सूक्ष्मस्थूलतया- ऽनेकविधाऽस्ति, तथा-क्रियाकाण्डे कर्तव्यानि कर्माण्यनेकानि सन्तीति विज्ञेयम् ।
त्रयोदशमन्त्रण या वेदविद्या प्रतिपादितास्ति तया सुखार्थं यज्ञसंधानमुक्तमनेनैतयैव पुरुषार्थः कार्य इति प्रकाशितम् ॥ २। १४ ॥
[चकारचतुष्टयाभिप्रायमाह--]
चकार चतुष्टयेनेश्वराज्ञा धर्म्या सूक्ष्मस्थूलतयानेकविधास्ति, तथा—क्रियाकाण्डे कर्त्तव्यानि कर्माण्यनेकानि सन्तीति विज्ञेयम्।
[मन्त्रसंगतिमाह--]
त्रयोदशमन्त्रेण या वेदविद्या प्रतिपदितास्ती तया सुखार्थं यज्ञसंधान्मुक्तामानेनैतायैव पुरुषार्थः कार्य इति प्रकाशितम ॥२।१४॥
विशेषः -
परमेष्ठी प्रजापतिः । अग्नि:=ईश्वरो भौतिकश्च ॥ पूर्वोऽनुष्टुप् । गान्धारः। अग्ने वाजजिदित्यत्र भुरिगार्चीगायत्री । षड्जः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal