Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 5
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - यज्ञो देवता छन्दः - निचृत् ब्राह्मी बृहती, स्वरः - मध्यमः
    34

    स॒मिद॑सि॒ सूर्य्य॑स्त्वा पु॒रस्ता॑त् पातु॒ कस्या॑श्चिद॒भिश॑स्त्यै। स॒वि॒तुर्बा॒हू स्थ॒ऽऊर्ण॑म्रदसं त्वा स्तृणामि स्वास॒स्थं दे॒वेभ्य॒ऽआ त्वा॒ वस॑वो रु॒द्राऽआ॑दि॒त्याः स॑दन्तु॥५॥

    स्वर सहित पद पाठ

    स॒मिदिति॑ स॒म्ऽइत्। अ॒सि॒। सूर्य्यः॑। त्वा॒। पु॒रस्ता॑त्। पा॒तु॒। कस्याः॑। चि॒त्। अ॒भिश॑स्त्या॒ इत्य॒भिऽश॑स्त्यै। स॒वि॒तुः। बा॒हूऽइति॑ बा॒हू। स्थः॒। उर्ण॑म्रदस॒मित्यूर्ण॑ऽम्रदसम्। त्वा॒। स्तृ॒णा॒मि॒। स्वा॒स॒स्थमिति॑ सुऽआ॒स॒स्थम्। दे॒वेभ्यः॑। आ। त्वा॒। वस॑वः। रु॒द्राः। आ॒दि॒त्याः स॒द॒न्तु॒ ॥५॥


    स्वर रहित मन्त्र

    समिदसि सूर्यस्त्वा पुरस्तात्पातु कस्याश्चिदभिशस्त्यै । सवितुर्बाहू स्थः ऽऊर्णम्रदसन्त्वा स्तृणामि स्वासस्थन्देवेभ्यऽआ त्वा वसवो रुद्राऽआदित्याः सदन्तु ॥


    स्वर रहित पद पाठ

    समिदिति सम्ऽइत्। असि। सूर्य्यः। त्वा। पुरस्तात्। पातु। कस्याः। चित्। अभिशस्त्या इत्यभिऽशस्त्यै। सवितुः। बाहूऽइति बाहू। स्थः। उर्णम्रदसमित्यूर्णऽम्रदसम्। त्वा। स्तृणामि। स्वासस्थमिति सुऽआसस्थम्। देवेभ्यः। आ। त्वा। वसवः। रुद्राः। आदित्याः सदन्तु॥५॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 5
    Acknowledgment

    सपदार्थान्वयः -

    चित्=यथा कश्चिन्मर्त्यः सुखार्थं क्रियासिद्धानि द्रव्याणि रक्षित्वाऽऽनन्दयते, तथैव योऽयं यज्ञः समित् सम्यगिध्यतेऽनयाऽनेन वा सा समिदग्निप्रदीपकं काष्ठादिकं वसन्त ऋतुर्वा असि=भवति [त्वा]=तं सूर्यः सुवत्यैश्वर्यहेतुर्भवति सोऽयं सूर्यलोकः कस्याः कस्यै सर्वस्यै अभिशस्त्यै अभिमुख्यायै स्तुतये पुरस्तात् पूर्वस्मादिति पुरस्तात् पातु=पति रक्षति ।

    यौ सवितुः सूर्यलोकस्य बाहू बलवीर्याऽख्यौ स्थः=स्तः, यो याभ्यां नित्यं विस्तीर्यते, [त्वा]=तम् ऊर्णम्रदसम् ऊर्णानि सुखाऽच्छादनानि म्रदयति येन तं यज्ञं स्वासस्थम्=यज्ञं शोभने आसे=उपवेशने तिष्ठतीति तं वसवः अग्न्यादयोऽष्टौ रुद्राः प्राणाऽपान व्यानोदानसमाननागकूर्म- कृकलदेवदत्तधनञ्जयाऽऽख्या दश प्राणा एकादशो जीवश्चेत्येकादश रुद्रा आदित्याः द्वादश मासाः सदन्तु=अवस्थापयन्ति प्रापयन्ति

    [त्वा]=तं यज्ञमहमपि सुखाय देवेभ्यो दिव्यगुणेभ्यः आस्तृणामि समन्तात् सामग्र्याऽऽच्छादयामि ॥२। ५॥

    पदार्थः -

    (समित्) सम्यगिध्यतेऽनयाऽनेन वा सा समिदग्निप्रदीपकं काष्ठादिकं वसंतऋतुर्वा (असि) भवति । अत्र व्यत्ययः (सूर्यः) सुवत्यैश्वर्यहेतुर्भवति सोऽयं सूर्य्यलोकः (त्वा) तम् (पुरस्तात्) पूर्वस्मादिति पुरस्तात् (पातु) रक्षति । अत्र लडर्थे लोट् (कस्याः) कस्यै सर्वस्यै । अत्र 'चतुर्थ्यर्थे बहुलं छन्दसि' ॥ अ० २ । ३ । ६२ ॥ इति चतुर्थ्यर्थे षष्ठी (चित्) चिदित्युपमार्थे ॥ निरु० १ । ४(अभिशस्त्यै) आभिमुख्यायै स्तुतये । शंसु स्तुतादित्यस्य क्तिन् प्रत्ययान्तः प्रयोग: (सवितुः) सूर्य्यलोकस्य (बाहू) बलवीर्याख्यौ (स्थः) स्तः। अत्र व्यत्ययः (ऊर्णम्रदसम्) ऊर्णानि=सुखाच्छादनानि म्रदयति येन तं यज्ञम् (त्वा) तम् (स्तृणामि) सामग्र्याऽऽच्छादयामि (स्वासस्थम्) शोभने आसे=उपवेशने तिष्ठतीति तम् (देवेभ्यः) दिव्यगुणेभ्यः (आ) समन्तात् क्रियायोगे (त्वा) तम् (वसवः) अग्न्यादयोऽष्टौ (रुद्राः) प्रणापानव्यानोदानसमान—नागकूर्मकृकलदेवदत्तधनंजयाख्या दश प्राणा एकादशो जीवश्चेत्येकादश रुद्राः (आदित्याः) द्वादश मासाः । कतमे वसव इति ? अग्निश्च पृथिवी च वायुश्चांतरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसव एतेषु हीदं सर्वं वसु हितमेते हीदं सर्वं वासयन्ते तद्यदिदं सर्वं वासयन्ते तस्माद्वसव इति ॥ कतमे रुद्रा इति ? दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्मान्मर्त्यांच्छरीरादुत्क्रामन्त्यथ रोदयन्ति । तद्यद्रोदयन्ति तस्माद्रुद्रा इति । कतम आदित्या इति? द्वादश मासाः संवत्सरस्यैत आदित्या एतेहीदं सर्वमाददाना यन्ति तद्यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति ॥ श० १४ । ६।९ । ४-६॥ (सदन्तु) अवस्थापयन्ति । षद्लृ इत्यस्य स्थाने वा इच्छन्दसि सर्वे विधयो भवन्तीति' सीदादेशाभावो लडर्थे लोट् च ॥ अयं मंत्रः श० १ । ४।१।७-१२ ब्याख्यातः ॥५॥ ।

    भावार्थः -

    [स्वासस्थं=यज्ञं वसवो रुद्रा आदित्याः सदन्तु]

    अत्रोपमालङ्कारः॥ ईश्वरः सर्वेभ्यः इदमुपदिशति मनुष्यैर्वसुरुद्रादित्याख्येभ्यो यद्यदुपकर्तुं शक्यं तत्तत्सर्वस्याभिरक्षणाय नित्यमनुष्ठेयम्।

    [योऽयं यज्ञः समिदसि=भवति तं सूर्यः पातु=पाति]

    योऽग्नौ द्रव्याणां प्रक्षेपः क्रियते स सूर्यं वायुं वा प्राप्नोति, तावेव तत्पृथग्भूतं द्रव्यं रक्षित्वा पुनः पृथिवीं प्रति विमुञ्चतः।

    [त्वा=तं यज्ञमहमपि देवेभ्य आस्तृणामि]

     येन पृथिव्यां दिव्या ओषध्यादयः पदार्था जायन्ते, येन च प्राणिनां नित्यं सुखं भवति, तस्मादेतत्स- दैवानुष्ठेयमिति ॥ २ । ५ ॥

    विशेषः -

    परमेष्ठी प्रजापतिः । यज्ञ:=स्पष्टम् ॥ निचृद्ब्राह्मी । बृहतीः। मध्यमः ॥

    इस भाष्य को एडिट करें
    Top