अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 13
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - उरोबृहती
सूक्तम् - कृत्यादूषण सूक्त
यथा॒ वात॑श्च्या॒वय॑ति॒ भूम्या॑ रे॒णुम॒न्तरि॑क्षाच्चा॒भ्रम्। ए॒वा मत्सर्वं॑ दुर्भू॒तं ब्रह्म॑नुत्त॒मपा॑यति ॥
स्वर सहित पद पाठयथा॑ । वात॑: । च्य॒वय॑ति । भूम्या॑: । रे॒णुम् । अ॒न्तरि॑क्षात् । च॒ । अ॒भ्रम् । ए॒व । मत् । सर्व॑म् । दु॒:ऽभू॒तम् । ब्रह्म॑ऽनुत्तम् । अप॑ । अ॒य॒ति॒ ॥१.१३॥
स्वर रहित मन्त्र
यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम्। एवा मत्सर्वं दुर्भूतं ब्रह्मनुत्तमपायति ॥
स्वर रहित पद पाठयथा । वात: । च्यवयति । भूम्या: । रेणुम् । अन्तरिक्षात् । च । अभ्रम् । एव । मत् । सर्वम् । दु:ऽभूतम् । ब्रह्मऽनुत्तम् । अप । अयति ॥१.१३॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(यथा) येन प्रकारेण (वातः) वायुः (च्यावयति) अपगमयति (भूम्याः) (रेणुम्) अजिवृरीभ्यो निच्च। उ० ३।३८। री गतिरेषणयोः−नु। धूलिम् (अन्तरिक्षात्) आकाशात् (च) (अभ्रम्) मेघम् (एव) एवम् (मत्) मत्तः (सर्वम्) (दुर्भूतम्) पापम्। दुःखम् (ब्रह्मनुत्तम्) ब्रह्मभिर्वेदविद्भिः प्रेरितम् (अप अयति) नश्यतु ॥
इस भाष्य को एडिट करें