अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 22
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - एकावसाना द्विपदार्च्युष्णिक्
सूक्तम् - कृत्यादूषण सूक्त
सोमो॒ राजा॑धि॒पा मृ॑डि॒ता च॑ भू॒तस्य॑ नः॒ पत॑यो मृडयन्तु ॥
स्वर सहित पद पाठसोम॑: । राजा॑ । अ॒धि॒ऽपा: । मृ॒डि॒ता: । च॒ । भू॒तस्य॑ । न॒: । पत॑य: । मृ॒ड॒य॒न्तु॒ ॥१.२२॥
स्वर रहित मन्त्र
सोमो राजाधिपा मृडिता च भूतस्य नः पतयो मृडयन्तु ॥
स्वर रहित पद पाठसोम: । राजा । अधिऽपा: । मृडिता: । च । भूतस्य । न: । पतय: । मृडयन्तु ॥१.२२॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(सोमः) ऐश्वर्यवान् (राजा) शासकः (अधिपाः) अधिकपालकः (मृडिता) सुखयिता (च) (भूतस्य पतयः) संसारस्य पालका राजपुरुषाः (नः) अस्मान् (मृडयन्तु) सुखयन्तु ॥
इस भाष्य को एडिट करें