Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 18
    सूक्त - प्रत्यङ्गिरसः देवता - कृत्यादूषणम् छन्दः - त्रिष्टुप् सूक्तम् - कृत्यादूषण सूक्त

    यां ते॑ ब॒र्हिषि॒ यां श्म॑शा॒ने क्षेत्रे॑ कृ॒त्यां व॑ल॒गं वा॑ निच॒ख्नुः। अ॒ग्नौ वा॑ त्वा॒ गार्ह॑पत्येऽभिचे॒रुः पाकं॒ सन्तं॒ धीर॑तरा अना॒गस॑म् ॥

    स्वर सहित पद पाठ

    याम् । ते॒ । ब॒र्हिष‍ि॑ । याम् । श्म॒शा॒ने । क्षेत्रे॑ । कृ॒त्याम् । व॒ल॒गम् । वा॒ । नि॒ऽच॒ख्‍नु: । अ॒ग्नौ । वा॒ । त्वा॒ । गार्ह॑ऽपत्ये । अ॒भि॒ऽचे॒रु: । पाक॑म् । सन्त॑म् । धीर॑ऽतरा: । अ॒ना॒गस॑म् ॥१.१८॥


    स्वर रहित मन्त्र

    यां ते बर्हिषि यां श्मशाने क्षेत्रे कृत्यां वलगं वा निचख्नुः। अग्नौ वा त्वा गार्हपत्येऽभिचेरुः पाकं सन्तं धीरतरा अनागसम् ॥

    स्वर रहित पद पाठ

    याम् । ते । बर्हिष‍ि । याम् । श्मशाने । क्षेत्रे । कृत्याम् । वलगम् । वा । निऽचख्‍नु: । अग्नौ । वा । त्वा । गार्हऽपत्ये । अभिऽचेरु: । पाकम् । सन्तम् । धीरऽतरा: । अनागसम् ॥१.१८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 18

    टिप्पणीः - १८, १९−(याम्) (ते) तव (बर्हिषि) अ० ५।२२।१। जले-निघ० १।१३। (याम्) (श्मशाने) अ० ५।३१।८। शवदाहस्थाने (क्षेत्रे) शस्योत्पत्तिस्थाने (कृत्याम्) हिंसाम् (वलगम्) अ० ५।३१।४। आच्छादनम्। गुप्तकर्म (वा) (निचख्नुः) अ० ५।३१।४। आच्छादनम्। गुप्तकर्म (वा) (निचख्नुः) अ० ५।३१।८। निखातवन्तः (अग्नौ) (वा) (त्वा) (गार्हपत्ये) अ० ६।१२०।१। गृहपतिभिः संयुक्ते (अभिचेरुः) अ० ५।३०।२। दुष्कृतवन्तः (पाकम्) अ० ९।९।२२। परिपक्वमनस्कम् (सन्तम्) सदाचारिणम् (धीरतराः) धीर+तॄ प्लवने अभिभवे च-अच्। धीराणां बुद्धिमतामभिभवितारः (अनागसम्) अ० ७।६।३। अनपराधिनम् ॥ (उपाहृतम्) प्रयुक्तम् (अनुबुद्धम्) अनुक्रमेण विचारितम् (निखातम्) खनित्वा स्थापितम् (वैरम्) द्वेषम् (त्सारि) त्सर छद्मगतौ−णिनि। वक्रम् (अनु) अनुसन्धानेन (अविदाम) विद्लृ लाभे−लुङ्। वयं प्राप्तवन्तः (कर्त्रम्) सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। कृती छेदने−ष्ट्रन्, तलोपः। यद्वा, कृञ् हिंसायाम्−ष्ट्रन्। कर्तनायुधम्। कृपाणम् (तत्) (एतु) (यतः) यस्मात् (आभृतम्) आहृतम् (तत्र) (अश्वः इव) (वि वर्तताम्) विविधं वर्तनं करोतु (हन्तु) (कृत्याकृतः) म० २। हिंसाकारकस्य (प्रजाम्) पुत्रपौत्रभृत्यादिरूपाम् ॥

    इस भाष्य को एडिट करें
    Top