Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 21
    सूक्त - प्रत्यङ्गिरसः देवता - कृत्यादूषणम् छन्दः - अनुष्टुप् सूक्तम् - कृत्यादूषण सूक्त

    ग्री॒वास्ते॑ कृत्ये॒ पादौ॒ चापि॑ कर्त्स्यामि॒ निर्द्र॑व। इ॑न्द्रा॒ग्नी अ॒स्मान्र॑क्षतां॒ यौ प्र॒जानां॑ प्र॒जाव॑ती ॥

    स्वर सहित पद पाठ

    ग्री॒वा: । ते॒ । कृ॒त्ये॒ । पादौ॑ । च॒ । अपि॑ । क॒र्त्स्या॒मि॒ । नि: । द्र॒व॒ । इ॒न्द्रा॒ग्नी इति॑ । अ॒स्मान् । र॒क्ष॒ता॒म् । यौ । प्र॒ऽजाना॑म् । प्र॒जाव॑ती॒ इति॑ प्र॒जाऽव॑ती ॥१.२१॥


    स्वर रहित मन्त्र

    ग्रीवास्ते कृत्ये पादौ चापि कर्त्स्यामि निर्द्रव। इन्द्राग्नी अस्मान्रक्षतां यौ प्रजानां प्रजावती ॥

    स्वर रहित पद पाठ

    ग्रीवा: । ते । कृत्ये । पादौ । च । अपि । कर्त्स्यामि । नि: । द्रव । इन्द्राग्नी इति । अस्मान् । रक्षताम् । यौ । प्रऽजानाम् । प्रजावती इति प्रजाऽवती ॥१.२१॥

    अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 21

    टिप्पणीः - २१−(ग्रीवाः) कण्ठनाडीः (ते) तव (कृत्ये) हे हिंसाक्रिये (पादौ, च, अपि) (कर्त्स्यामि) छेत्स्यामि (निर्द्रव) निर्गच्छ (इन्द्राग्नी) वाय्वग्नितुल्यौ राजमन्त्रिणौ (अस्मान्) प्रजागणान् (रक्षताम्) (यौ) (प्रजानाम्) प्रजानां मध्ये (प्रजावता) श्रेष्ठप्रजायुक्ता माता यथा ॥

    इस भाष्य को एडिट करें
    Top