अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 23
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - त्रिपदा भुरिग्विषमा गायत्री
सूक्तम् - कृत्यादूषण सूक्त
भ॑वाश॒र्वाव॑स्यतां पाप॒कृते॑ कृत्या॒कृते॑। दु॒ष्कृते॑ वि॒द्युतं॑ देवहे॒तिम् ॥
स्वर सहित पद पाठभ॒वा॒श॒र्वौ । अ॒स्य॒ता॒म् । पा॒प॒ऽकृते॑ । कृ॒त्या॒ऽकृते॑ । दु॒:ऽकृते॑ । वि॒ऽद्युत॑म् । दे॒व॒ऽहे॒तिम् ॥१.२३॥
स्वर रहित मन्त्र
भवाशर्वावस्यतां पापकृते कृत्याकृते। दुष्कृते विद्युतं देवहेतिम् ॥
स्वर रहित पद पाठभवाशर्वौ । अस्यताम् । पापऽकृते । कृत्याऽकृते । दु:ऽकृते । विऽद्युतम् । देवऽहेतिम् ॥१.२३॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३−(भवाशर्वौ) अ० ८।२।७। सुखस्य भावयिता कर्ता भवो राजा, दुःखस्य शरिता नाशकः शर्वो मन्त्री च तौ (अस्यताम्) प्रेरयताम् (पापकृते) पापकारिणे (कृत्याकृते) म० २। हिंसाकारिणे (दुष्कृते) दुष्कर्मिणे (विद्युतम्) अशनिरूपं शस्त्रम् (देवहेतिम्) विदुषां वज्रम् ॥
इस भाष्य को एडिट करें