अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 31
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यादूषण सूक्त
कृ॑त्या॒कृतो॑ वल॒गिनो॑ऽभिनिष्का॒रिणः॑ प्र॒जाम्। मृ॑णी॒हि कृ॑त्ये॒ मोच्छि॑षो॒ऽमून्कृ॑त्या॒कृतो॑ जहि ॥
स्वर सहित पद पाठकृ॒त्या॒ऽकृत॑: । व॒ल॒गिन॑: । अ॒भि॒ऽनि॒ष्का॒रिण॑: । प्र॒ऽजाम् । मृ॒णी॒हि । कृ॒त्ये॒ । मा । उत् । शि॒ष॒: । अ॒मून् । कृ॒त्या॒ऽकृत॑: । ज॒हि॒ ॥१.३१॥
स्वर रहित मन्त्र
कृत्याकृतो वलगिनोऽभिनिष्कारिणः प्रजाम्। मृणीहि कृत्ये मोच्छिषोऽमून्कृत्याकृतो जहि ॥
स्वर रहित पद पाठकृत्याऽकृत: । वलगिन: । अभिऽनिष्कारिण: । प्रऽजाम् । मृणीहि । कृत्ये । मा । उत् । शिष: । अमून् । कृत्याऽकृत: । जहि ॥१.३१॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 31
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३१−(कृत्याकृतः) म० २। हिंसाकारकस्य (वलगिनः) अ० ५।३१।१२। गुप्तकर्मकारिणः (अभिनिष्कारिणः) प्रतिकूलयत्नसाधकस्य (प्रजाम्) भृत्यादिरूपाम् (मृणीहि) मारय (कृत्ये) करोतेः क्यप् तुक् च, ततः अर्शआद्यच्, टाप्, तत्सम्बुद्धौ। हे कृत्ये कर्तव्ये कुशले सेने प्रजे वा (अमून्) (कृत्याकृतः) हिंसाकारकान् (जहि) नाशय ॥
इस भाष्य को एडिट करें