Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 24
    सूक्त - प्रत्यङ्गिरसः देवता - कृत्यादूषणम् छन्दः - अनुष्टुप् सूक्तम् - कृत्यादूषण सूक्त

    यद्ये॒यथ॑ द्वि॒पदी॒ चतु॑ष्पदी कृत्या॒कृता॒ संभृ॑ता वि॒श्वरू॑पा। सेतो॒ष्टाप॑दी भू॒त्वा पुनः॒ परे॑हि दुच्छुने ॥

    स्वर सहित पद पाठ

    यदि॑ । आ॒ऽइ॒यथ॑ । द्वि॒ऽपदी॑ । चतु॑:ऽपदी । कृ॒त्या॒ऽकृता॑ । सम्ऽभृ॑ता । वि॒श्वऽरू॑पा । सा । इ॒त: । अ॒ष्टाऽप॑दी । भू॒त्वा । पुन॑: । परा॑ । इ॒हि॒ । दु॒च्छु॒ने॒ ॥१.२४॥


    स्वर रहित मन्त्र

    यद्येयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा। सेतोष्टापदी भूत्वा पुनः परेहि दुच्छुने ॥

    स्वर रहित पद पाठ

    यदि । आऽइयथ । द्विऽपदी । चतु:ऽपदी । कृत्याऽकृता । सम्ऽभृता । विश्वऽरूपा । सा । इत: । अष्टाऽपदी । भूत्वा । पुन: । परा । इहि । दुच्छुने ॥१.२४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 24

    टिप्पणीः - २४−(यदि) सम्भावनायाम् (एयथ) आ+इण् गतौ-लिट्। एयेथ। त्वमागतवती (द्विपदी) द्वयोः स्त्रीपुरुषसमूहयोर्मध्ये पदं गमनं यस्याः सा (चतुष्पदी) चतुर्षु ब्रह्मचर्याद्याश्रमेषु पदं स्थितिर्यस्याः सा (कृत्याकृता) म० २। हिंसाकारकेण (संभृता) निष्पादिता (विश्वरूपा) अनेकविधा (सा) सा त्वम् (इतः) अस्मात् स्थानात् (अष्टापदी) अष्टसु चतसृषु पूर्वादिदिक्षु आग्नेयादिमध्यदिक्षु च पदं व्याप्तिर्यस्याः सा (भूत्वा) (पुनः) पश्चात् (परेहि) निर्गच्छ (दुच्छुने) अ० ५।१७।४। हे दुष्टगते ॥

    इस भाष्य को एडिट करें
    Top