अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 15
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - चतुष्पदा विराड्जगती
सूक्तम् - कृत्यादूषण सूक्त
अ॒यं पन्थाः॑ कृ॒त्य॒ इति॑ त्वा नयामोऽभि॒प्रहि॑तां॒ प्रति॑ त्वा॒ प्र हि॑ण्मः। तेना॒भि या॑हि भञ्ज॒त्यन॑स्वतीव वा॒हिनी॑ वि॒श्वरू॑पा कुरू॒टिनी॑ ॥
स्वर सहित पद पाठअ॒यम् । पन्था॑: । कृ॒त्ये॒ । इति॑ । त्वा॒ । न॒या॒म॒: । अ॒भि॒ऽप्रहि॑ताम् । प्रति॑ । त्वा॒ । प्र॒ । हि॒ण्म॒: । तेन॑ । अ॒भि । या॒हि॒ । भ॒ञ्ज॒ती । अन॑स्वतीऽइव । वा॒हिनी॑ । वि॒श्वऽरू॑पा । कु॒रू॒टिनी॑ ॥१.१५॥
स्वर रहित मन्त्र
अयं पन्थाः कृत्य इति त्वा नयामोऽभिप्रहितां प्रति त्वा प्र हिण्मः। तेनाभि याहि भञ्जत्यनस्वतीव वाहिनी विश्वरूपा कुरूटिनी ॥
स्वर रहित पद पाठअयम् । पन्था: । कृत्ये । इति । त्वा । नयाम: । अभिऽप्रहिताम् । प्रति । त्वा । प्र । हिण्म: । तेन । अभि । याहि । भञ्जती । अनस्वतीऽइव । वाहिनी । विश्वऽरूपा । कुरूटिनी ॥१.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(अयम्) (पन्थाः) मार्गः (कृत्ये) हे हिंसाक्रिये (इति) वाक्यसमाप्तौ (त्वा) त्वाम् (नयामः) प्रापयामः (अभिप्रहिताम्) अस्मान् प्रति प्रेषिताम् (प्रति) प्रतिकूलम् (त्वा) (प्र) (हिण्मः) प्रेरयामः (तेन) (अभियाहि) तान् प्रति गच्छ (भञ्जती) भञ्जनं कुर्वती (अनस्वती) रथैर्युक्ता (इव) यथा (वाहिनी) सेना (विश्वरूपा) सर्वाङ्गोपेता (कुरूटिनी) कु+रुट प्रतिघाते भाषायां च-क, इनि, ङीप्, छान्दसो दीर्घः। कु कुटिलं प्रतिघातिनी, अवरोधिका ॥
इस भाष्य को एडिट करें