Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 11
    सूक्त - प्रत्यङ्गिरसः देवता - कृत्यादूषणम् छन्दः - अनुष्टुप् सूक्तम् - कृत्यादूषण सूक्त

    यत्ते॑ पि॒तृभ्यो॒ दद॑तो य॒ज्ञे वा॒ नाम॑ जगृ॒हुः। सं॑दे॒श्या॒त्सर्व॑स्मात्पा॒पादि॒मा मु॑ञ्चन्तु॒ त्वौष॑धीः ॥

    स्वर सहित पद पाठ

    यत् । ते॒ । पि॒तृऽभ्य॑: ।दद॑त: । य॒ज्ञे । वा॒ । नाम॑ । ज॒गृ॒हु: । स॒म्ऽदे॒श्या᳡त् । सर्व॑स्मात् । पा॒पात् । इ॒मा: । मु॒ञ्च॒न्तु॒ । त्वा॒ । ओष॑धी: ॥१.११॥


    स्वर रहित मन्त्र

    यत्ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः। संदेश्यात्सर्वस्मात्पापादिमा मुञ्चन्तु त्वौषधीः ॥

    स्वर रहित पद पाठ

    यत् । ते । पितृऽभ्य: ।ददत: । यज्ञे । वा । नाम । जगृहु: । सम्ऽदेश्यात् । सर्वस्मात् । पापात् । इमा: । मुञ्चन्तु । त्वा । ओषधी: ॥१.११॥

    अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 11

    टिप्पणीः - ११−(यत्) यदि (ते) तव (पितृभ्यः) मातापितृगुर्वादिभ्यः (ददतः) दानशीलस्य (यज्ञे) धर्मकर्मणि (वा) पादपूरणे (नाम) मिथ्यापवादम् (जगृहुः) गृहीतवन्तः। आरोपितवन्तः (सन्देश्यात्) दिश दाने-ण्यत्। अभिलषितात्। अभीष्टात् (सर्वस्मात्) (पापात्) (इमाः) (मुञ्चन्तु) वियोजयन्तु (त्वा) (ओषधीः) ओषधयः। ओषधिवत् तापनाशका विद्वांसः ॥

    इस भाष्य को एडिट करें
    Top