अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 17
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - कृत्यादूषण सूक्त
वात॑ इव वृ॒क्षान्नि मृ॑णीहि पा॒दय॒ मा गामश्वं॒ पुरु॑ष॒मुच्छि॑ष एषाम्। क॒र्तॄन्नि॒वृत्ये॒तः कृ॑त्येऽप्रजा॒स्त्वाय॑ बोधय ॥
स्वर सहित पद पाठवात॑:ऽइव । वृ॒क्षान् । नि । मृ॒णी॒हि॒ । पा॒दय॑ । मा । गाम् । अश्व॑म् । पुरु॑षम् । उत् । शि॒ष॒: । ए॒षा॒म् । क॒र्तृन् । नि॒ऽवृत्य॑ । इ॒त: । कृ॒त्ये॒ । अ॒प्र॒जा॒:ऽत्वा॒य॑ । बो॒ध॒य॒ ॥१.१७॥
स्वर रहित मन्त्र
वात इव वृक्षान्नि मृणीहि पादय मा गामश्वं पुरुषमुच्छिष एषाम्। कर्तॄन्निवृत्येतः कृत्येऽप्रजास्त्वाय बोधय ॥
स्वर रहित पद पाठवात:ऽइव । वृक्षान् । नि । मृणीहि । पादय । मा । गाम् । अश्वम् । पुरुषम् । उत् । शिष: । एषाम् । कर्तृन् । निऽवृत्य । इत: । कृत्ये । अप्रजा:ऽत्वाय । बोधय ॥१.१७॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(वातः) (इव) (वृक्षान्) (नि) नितराम् (मृणीहि) मारय (पादय) तस्य दः। पातय (मा उत् शिषः)। अ० ६।१२७।१। मोच्छेषय (गाम्) (अश्वम्) (पुरुषम्) (एषाम्) हिंसकानाम् (कर्तॄन्) म० ३। हिंसकान् (निवृत्य) परागत्य (इतः) अस्मात् स्थानात् (कृत्ये) हे हिंसाक्रिये (अप्रजास्त्वाय) अ० ८।६।२६। पुत्रपौत्रसेवकादिराहित्याय (बोधय) विज्ञापय ॥
इस भाष्य को एडिट करें