अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 19
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - चतुष्पदा जगती
सूक्तम् - कृत्यादूषण सूक्त
उ॒पाहृ॑त॒मनु॑बुद्धं॒ निखा॑तं॒ वैरं॑ त्सा॒र्यन्व॑विदाम॒ कर्त्र॑म्। तदे॑तु॒ यत॒ आभृ॑तं॒ तत्राश्व॑ इव॒ वि व॑र्ततां॒ हन्तु॑ कृत्या॒कृतः॑ प्र॒जाम् ॥
स्वर सहित पद पाठउ॒प॒ऽआहृ॑तम् । अनु॑ऽबुध्दम् । निऽखा॑तम् । वैर॑म् । त्सा॒रि । अनु॑ । अ॒वि॒दा॒म॒ । कर्त्र॑म् । तत् । ए॒तु॒ । यत॑: । आऽभृ॑तम् । तत्र॑ । अश्व॑:ऽइव । वि । व॒र्त॒ता॒म् । हन्तु॑ । कृ॒त्या॒ऽकृत॑: । प्र॒ऽजाम् ॥१.१९॥
स्वर रहित मन्त्र
उपाहृतमनुबुद्धं निखातं वैरं त्सार्यन्वविदाम कर्त्रम्। तदेतु यत आभृतं तत्राश्व इव वि वर्ततां हन्तु कृत्याकृतः प्रजाम् ॥
स्वर रहित पद पाठउपऽआहृतम् । अनुऽबुध्दम् । निऽखातम् । वैरम् । त्सारि । अनु । अविदाम । कर्त्रम् । तत् । एतु । यत: । आऽभृतम् । तत्र । अश्व:ऽइव । वि । वर्तताम् । हन्तु । कृत्याऽकृत: । प्रऽजाम् ॥१.१९॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 19
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८, १९−(याम्) (ते) तव (बर्हिषि) अ० ५।२२।१। जले-निघ० १।१३। (याम्) (श्मशाने) अ० ५।३१।८। शवदाहस्थाने (क्षेत्रे) शस्योत्पत्तिस्थाने (कृत्याम्) हिंसाम् (वलगम्) अ० ५।३१।४। आच्छादनम्। गुप्तकर्म (वा) (निचख्नुः) अ० ५।३१।४। आच्छादनम्। गुप्तकर्म (वा) (निचख्नुः) अ० ५।३१।८। निखातवन्तः (अग्नौ) (वा) (त्वा) (गार्हपत्ये) अ० ६।१२०।१। गृहपतिभिः संयुक्ते (अभिचेरुः) अ० ५।३०।२। दुष्कृतवन्तः (पाकम्) अ० ९।९।२२। परिपक्वमनस्कम् (सन्तम्) सदाचारिणम् (धीरतराः) धीर+तॄ प्लवने अभिभवे च-अच्। धीराणां बुद्धिमतामभिभवितारः (अनागसम्) अ० ७।६।३। अनपराधिनम् ॥ (उपाहृतम्) प्रयुक्तम् (अनुबुद्धम्) अनुक्रमेण विचारितम् (निखातम्) खनित्वा स्थापितम् (वैरम्) द्वेषम् (त्सारि) त्सर छद्मगतौ−णिनि। वक्रम् (अनु) अनुसन्धानेन (अविदाम) विद्लृ लाभे−लुङ्। वयं प्राप्तवन्तः (कर्त्रम्) सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। कृती छेदने−ष्ट्रन्, तलोपः। यद्वा, कृञ् हिंसायाम्−ष्ट्रन्। कर्तनायुधम्। कृपाणम् (तत्) (एतु) (यतः) यस्मात् (आभृतम्) आहृतम् (तत्र) (अश्वः इव) (वि वर्तताम्) विविधं वर्तनं करोतु (हन्तु) (कृत्याकृतः) म० २। हिंसाकारकस्य (प्रजाम्) पुत्रपौत्रभृत्यादिरूपाम् ॥
इस भाष्य को एडिट करें