अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 6
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यादूषण सूक्त
प्र॑ती॒चीन॑ आङ्गिर॒सोऽध्य॑क्षो नः पु॒रोहि॑तः। प्र॒तीचीः॑ कृ॒त्या आ॒कृत्या॒मून्कृ॑त्या॒कृतो॑ जहि ॥
स्वर सहित पद पाठप्र॒ती॒चीन॑: । अ॒ङ्गि॒र॒स: । अधि॑ऽअक्ष: । न॒: । पु॒र:ऽहि॑त: । प्र॒तीची॑: । कृ॒त्या: । आ॒ऽकृत्य॑ । अ॒मून् । कृ॒त्या॒ऽकृत॑: । ज॒हि॒ ॥१.६॥
स्वर रहित मन्त्र
प्रतीचीन आङ्गिरसोऽध्यक्षो नः पुरोहितः। प्रतीचीः कृत्या आकृत्यामून्कृत्याकृतो जहि ॥
स्वर रहित पद पाठप्रतीचीन: । अङ्गिरस: । अधिऽअक्ष: । न: । पुर:ऽहित: । प्रतीची: । कृत्या: । आऽकृत्य । अमून् । कृत्याऽकृत: । जहि ॥१.६॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(प्रतीचीनः) अ० ४।३२।६। प्रत्यक्षं गच्छन् (आङ्गिरसः) अ० २।१२।४। तदधीते तद्वेद। पा० ४।२।५९। इत्यण्। अङ्गिरसां वेदानां ज्ञाता (अध्यक्षः) अधिपतिः (नः) अस्माकम् (पुरोहितः) अ० ३।१९।१। अग्रेसरः (प्रतीचीः) प्रतिकूलगतीः (कृत्याः) म० ४। हिंसाः (आकृत्य) निष्पाद्य (अमून्) (कृत्याकृतः) म० २। हिंसाकर्तॄन् (जहि) मारय ॥
इस भाष्य को एडिट करें