अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 7
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यादूषण सूक्त
यस्त्वो॒वाच॒ परे॒हीति॑ प्रति॒कूल॑मुदा॒य्यम्। तं कृ॑त्येऽभि॒निव॑र्तस्व॒ मास्मानि॑च्छो अना॒गसः॑ ॥
स्वर सहित पद पाठय: । त्वा॒ । उ॒वाच॑ । परा॑ । इ॒हि॒ । इति॑ । प्र॒ति॒ऽकूल॑म् । उ॒त्ऽआ॒य्य᳡म् । तम् । कृ॒त्ये॒ । अ॒भि॒ऽनिव॑र्तस्व । मा । अ॒स्मान् । इ॒च्छ॒: । अ॒ना॒गस॑: ॥१.७॥
स्वर रहित मन्त्र
यस्त्वोवाच परेहीति प्रतिकूलमुदाय्यम्। तं कृत्येऽभिनिवर्तस्व मास्मानिच्छो अनागसः ॥
स्वर रहित पद पाठय: । त्वा । उवाच । परा । इहि । इति । प्रतिऽकूलम् । उत्ऽआय्यम् । तम् । कृत्ये । अभिऽनिवर्तस्व । मा । अस्मान् । इच्छ: । अनागस: ॥१.७॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(यः) शत्रुः (त्वा) त्वाम् (उवाच) कथितवान् (परा) दूरे (इहि) प्राप्नुहि (इति) वाक्यसमाप्तौ (प्रतिकूलम्) विरुद्धपक्षवन्तं शत्रुम् (उदाय्यम्) उत्+आय-यत्। उदयं गच्छन्तम् (तम्) शत्रुम् (कृत्ये) म० ४। हे हिंसाक्रिये (अभिनिवर्तस्व) अभितो निवर्त्य प्राप्नुहि (मा इच्छः) मा वाञ्छ (अनागसः) निर्दोषान् ॥
इस भाष्य को एडिट करें