अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 5
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यादूषण सूक्त
अ॒घम॑स्त्वघ॒कृते॑ श॒पथः॑ शपथीय॒ते। प्र॒त्यक्प्र॑ति॒प्रहि॑ण्मो॒ यथा॑ कृत्या॒कृतं॒ हन॑त् ॥
स्वर सहित पद पाठअ॒घम् । अ॒स्तु॒ । अ॒घऽकृते॑ । श॒पथ॑: । श॒प॒थि॒ऽय॒ते । प्र॒त्यक् । प्र॒ति॒ऽप्रहि॑ण्म: । यथा॑ । कृ॒त्या॒ऽकृत॑म् । हनत् ॥१.५॥
स्वर रहित मन्त्र
अघमस्त्वघकृते शपथः शपथीयते। प्रत्यक्प्रतिप्रहिण्मो यथा कृत्याकृतं हनत् ॥
स्वर रहित पद पाठअघम् । अस्तु । अघऽकृते । शपथ: । शपथिऽयते । प्रत्यक् । प्रतिऽप्रहिण्म: । यथा । कृत्याऽकृतम् । हनत् ॥१.५॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(अघम्) पापम् (अस्तु) (अघकृते) पापकारिणे (शपथः) शापः। दुर्वचनम् (शपथीयते) शपथ-क्यच्, शतृ। शापकारिणे (प्रत्यक्) प्रतिकूलगमनम् (प्रतिप्रहिण्मः) हि गतिवृद्ध्योः। प्रतिकूलं गमयामः (यथा) येन प्रकारेण (कृत्याकृतम्) हिंसाकारिणम् (हनत्) हन्यात् ॥
इस भाष्य को एडिट करें