अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 20
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - विराट्प्रस्तारपङ्क्तिः
सूक्तम् - कृत्यादूषण सूक्त
स्वा॑य॒सा अ॒सयः॑ सन्ति नो गृ॒हे वि॒द्मा ते॑ कृत्ये यति॒धा परूं॑षि। उत्ति॑ष्ठै॒व परे॑ही॒तोऽज्ञा॑ते॒ किमि॒हेच्छ॑सि ॥
स्वर सहित पद पाठसु॒ऽआ॒य॒सा: । अ॒सय॑: । स॒न्ति॒ । न॒: । गृ॒हे । वि॒द्म । ते॒ । कृ॒त्ये॒ । य॒ति॒ऽधा । परूं॑षि । उत् । ति॒ष्ठ॒ । ए॒व । परा॑ । इ॒हि॒ । इ॒त: । अज्ञा॑ते । किम् । इ॒ह । इ॒च्छ॒सि॒ ॥१.२०॥
स्वर रहित मन्त्र
स्वायसा असयः सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि। उत्तिष्ठैव परेहीतोऽज्ञाते किमिहेच्छसि ॥
स्वर रहित पद पाठसुऽआयसा: । असय: । सन्ति । न: । गृहे । विद्म । ते । कृत्ये । यतिऽधा । परूंषि । उत् । तिष्ठ । एव । परा । इहि । इत: । अज्ञाते । किम् । इह । इच्छसि ॥१.२०॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(स्वायसाः) अयस्-अण्। सु सुष्ठु अयसा लौहेन निर्मिताः (असयः) तरवारयः (सन्ति) (नः) अस्माकम् (गृहे) (विद्म) जानीमः (ते) तव (कृत्ये) हे हिंसाक्रिये (यतिधा) यत्प्रकाराणि (परूंषि) ग्रन्थीन् (उत्तिष्ठ) (एव) अवश्यम्, (परेहि) (इतः) (अज्ञाते) हे अपरिचिते हिंसे (किम्) (इह) (इच्छसि) आकाङ्क्षसि ॥
इस भाष्य को एडिट करें