Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 10
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    बृह॒स्पति॑राङ्गिर॒स ऋष॑यो॒ ब्रह्म॑संशिताः। अ॑सुर॒क्षय॑णं व॒धं त्रिष॑न्धिं दि॒व्याश्र॑यन् ॥

    स्वर सहित पद पाठ

    बृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । ऋष॑य: । ब्रह्म॑ऽसंशिता: । अ॒सु॒र॒ऽक्षय॑णम् । व॒धम् । त्रिऽसं॑धिम् । दि॒वि । आ । अ॒श्र॒य॒न् ॥१२.१०॥


    स्वर रहित मन्त्र

    बृहस्पतिराङ्गिरस ऋषयो ब्रह्मसंशिताः। असुरक्षयणं वधं त्रिषन्धिं दिव्याश्रयन् ॥

    स्वर रहित पद पाठ

    बृहस्पति: । आङ्गिरस: । ऋषय: । ब्रह्मऽसंशिता: । असुरऽक्षयणम् । वधम् । त्रिऽसंधिम् । दिवि । आ । अश्रयन् ॥१२.१०॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 10

    टिप्पणीः - १०−(बृहस्पतिः) बृहतां रक्षको राजा (आङ्गिरसः) तस्येदम्। पा० ४।३।१˜२०। अङ्गिरस्-अण्। अङ्गिरसां विज्ञानिनां शिष्यः (ऋषयः) अ० २।६।१। सन्मार्गदर्शकाः (ब्रह्मसंशिताः) अ० ३।१९।८। शो तनूकरणे-क्त। ब्रह्मणा वेदज्ञानेन सुतीक्ष्णीकृताः (असुरक्षयणम्) दुष्टानां क्षयकरम् (वधम्) शस्त्ररूपम् (त्रिषन्धिम्) म० २। त्रयीकुशलं सेनापतिम् (दिवि) विजिगीषायाम् (आश्रयन्) श्रिञ् सेवायाम्-लङ्। आश्रितवन्तः ॥

    इस भाष्य को एडिट करें
    Top