अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 22
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - शत्रुनाशन सूक्त
यश्च॑ कव॒ची यश्चा॑कव॒चो॒मित्रो॒ यश्चाज्म॑नि। ज्या॑पा॒शैः क॑वचपा॒शैरज्म॑ना॒भिह॑तः शयाम् ॥
स्वर सहित पद पाठय: । च॒ । क॒व॒ची । य: । च॒ । अ॒क॒व॒च: । अ॒मित्र॑: । य: । च॒ । अज्म॑नि । ज्या॒ऽपा॒शै: । क॒व॒च॒ऽपा॒शै: । अज्म॑ना । अ॒भिऽह॑त: । श॒या॒म् ॥१२.२२॥
स्वर रहित मन्त्र
यश्च कवची यश्चाकवचोमित्रो यश्चाज्मनि। ज्यापाशैः कवचपाशैरज्मनाभिहतः शयाम् ॥
स्वर रहित पद पाठय: । च । कवची । य: । च । अकवच: । अमित्र: । य: । च । अज्मनि । ज्याऽपाशै: । कवचऽपाशै: । अज्मना । अभिऽहत: । शयाम् ॥१२.२२॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(यः) (च) (कवची) कवचधारी (यः) (च) (अकवचः) कवचरहितः (अमित्राः) पीडकः शत्रुः (यः) (च) (अज्मनि) अ० ६।९७।३। अज गतिक्षेपणयोः-मनिन्। गमनक्षेपणव्यवहारे। संग्रामे (ज्यापाशैः) मौर्वीपाशैः (कवचपाशैः) वर्मबन्धनपाशैः (अज्मना) गमनक्षेपणव्यापारेण (अभिहतः) विनाशितः (शयाम्) तलोपः। शेताम् ॥
इस भाष्य को एडिट करें