Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 7
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    धू॑मा॒क्षी सं प॑ततु कृधुक॒र्णी च॑ क्रोशतु। त्रिष॑न्धेः॒ सेन॑या जि॒ते अ॑रु॒णाः स॑न्तु के॒तवः॑ ॥

    स्वर सहित पद पाठ

    धू॒म॒ऽअ॒क्षी: । सम् । प॒त॒तु॒ । कृ॒धु॒ऽक॒र्णी । च॒ । क्रो॒श॒तु॒ । त्रिऽसं॑धे: । सेन॑या । जि॒ते । अ॒रु॒णा: । स॒न्तु॒ । के॒तव॑: ॥१२.७॥


    स्वर रहित मन्त्र

    धूमाक्षी सं पततु कृधुकर्णी च क्रोशतु। त्रिषन्धेः सेनया जिते अरुणाः सन्तु केतवः ॥

    स्वर रहित पद पाठ

    धूमऽअक्षी: । सम् । पततु । कृधुऽकर्णी । च । क्रोशतु । त्रिऽसंधे: । सेनया । जिते । अरुणा: । सन्तु । केतव: ॥१२.७॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 7

    टिप्पणीः - ७−(धूमाक्षी) बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्। पा० ५।४।११३। इति षच्। षित्त्वाद् ङीष्। धूमपूरितनेत्रा (सम्) सम्यक् (पततु) निपद्यताम् (कृधुकर्णी) अ० ११।९।७। मन्दश्रवणा (च) (क्रोशतु) रोदितु (त्रिषन्धेः) म० २। त्रयीकुशलस्य सेनापतेः (सेनया) (जिते) जयकर्मणि (अरुणाः) म० २। रक्तवर्णाः (सन्तु) (केतवः) ध्वजाः ॥

    इस भाष्य को एडिट करें
    Top