अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 24
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
ये र॒थिनो॒ ये अ॑र॒था अ॑सा॒दा ये च॑ सा॒दिनः॑। सर्वा॑नदन्तु॒ तान्ह॒तान्गृध्राः॑ श्ये॒नाः प॑त॒त्रिणः॑ ॥
स्वर सहित पद पाठये । र॒थिन॑: । ये । अ॒र॒था: । अ॒सा॒दा: । ये । च॒ । सा॒दिन॑: । सर्वा॑न् । अ॒द॒न्तु॒ । तान् । ह॒तान् । गृध्रा॑: । श्ये॒ना: । प॒त॒त्रिण॑: ॥१२.२४॥
स्वर रहित मन्त्र
ये रथिनो ये अरथा असादा ये च सादिनः। सर्वानदन्तु तान्हतान्गृध्राः श्येनाः पतत्रिणः ॥
स्वर रहित पद पाठये । रथिन: । ये । अरथा: । असादा: । ये । च । सादिन: । सर्वान् । अदन्तु । तान् । हतान् । गृध्रा: । श्येना: । पतत्रिण: ॥१२.२४॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 24
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २४−(ये) शत्रवः (रथिनः) रथारूढाः (ये) (अरथाः) रथरहिताः (असादाः) अवाहनाः। पदातयः (ये) (च) (सादिनः) षद्लृ विशरणगत्यवसादनेषु-णिनि। अश्वारूढाः। गजारूढादयः (सर्वान्) (अदन्तु) भक्षयन्तु (तान्) शत्रून् (हतान्) मारितान् (गृध्राः) मांसाहारिणः पक्षिविशेषाः (श्येनाः) अ० ३।३।३। शीघ्रगतयः श्येनादयः (पतत्रिणः) पक्षिणः ॥
इस भाष्य को एडिट करें