अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 26
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
म॑र्मा॒विधं॒ रोरु॑वतं सुप॒र्णैर॒दन्तु॑ दु॒श्चितं॑ मृदि॒तं शया॑नम्। य इ॒मां प्र॒तीची॒माहु॑तिम॒मित्रो॑ नो॒ युयु॑त्सति ॥
स्वर सहित पद पाठम॒र्मा॒विध॑म् । रोरु॑वतम् । सु॒ऽप॒र्णै: । अ॒दन्तु॑ । दु॒:ऽचित॑म् । मृ॒दि॒तम् । शया॑नम् । य: । इ॒माम् । प्र॒तीची॑म् । आऽहु॑तिम् । अ॒मित्र॑: । न॒: । युयु॑त्सति ॥१२.२६॥
स्वर रहित मन्त्र
मर्माविधं रोरुवतं सुपर्णैरदन्तु दुश्चितं मृदितं शयानम्। य इमां प्रतीचीमाहुतिममित्रो नो युयुत्सति ॥
स्वर रहित पद पाठमर्माविधम् । रोरुवतम् । सुऽपर्णै: । अदन्तु । दु:ऽचितम् । मृदितम् । शयानम् । य: । इमाम् । प्रतीचीम् । आऽहुतिम् । अमित्र: । न: । युयुत्सति ॥१२.२६॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 26
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २६−(मर्माविधम्) व्यध ताडने-कर्मणि क्विप्। ग्रहिज्यावयिव्यधि०। पा० ६।१।१६। इति सम्प्रसारणम्। नहिवृतिवृषिव्यधि०। पा० ६।३।११६। पूर्वपदस्य दीर्घः क्विप्रत्यये। मर्मसु विध्यमानम् (रोरुवतम्) रु शब्दे-यङ्लुकि-शतृ। रोरूयमाणम्। अत्यन्तं शब्दायमानम् (सुपर्णैः) सुपां सुपो भवन्ति। वा। पा० ७।१।३९। प्रथमास्थाने तृतीया। सुपर्णाः। शीघ्रगामिनः पक्षिणः। गृध्रादयः (अदन्तु) (दुश्चितम्) चिती संज्ञाने-क्विप्। दुष्टा चित् ज्ञानं यस्य तम्। दुष्टविचारयुक्तम् (मृदितम्) चूर्णीकृतम् (शयानम्) भूमौ वर्तमानम् (यः) (इमाम्) (प्रतीचीम्) अ० ३।२६।३। प्रति+अञ्चु गतिपूजनयोः-क्विन्, ङीप्। प्रत्यक्षमञ्चन्तीं गच्छन्तीम् (आहुतिम्) दानक्रियाम् (अमित्रः) शत्रुः (नः) अस्माकम् (युयुत्सति) योद्धुमिच्छति ॥
इस भाष्य को एडिट करें