अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 23
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
ये व॒र्मिणो॒ येऽव॒र्माणो॑ अ॒मित्रा॒ ये च॑ व॒र्मिणः॑। सर्वां॒स्ताँ अ॑र्बुदे ह॒ताञ्छ्वानो॑ऽदन्तु॒ भूम्या॑म् ॥
स्वर सहित पद पाठये । व॒र्मिण॑: । ये । अ॒व॒र्माण॑: । अ॒मित्रा॑: । ये । च॒ । व॒र्मिण॑: । सर्वा॑न् । तान् । अ॒र्बु॒दे॒ । ह॒तान् । श्वान॑: । अ॒द॒न्तु॒ । भूम्या॑म् ॥१२.२३॥
स्वर रहित मन्त्र
ये वर्मिणो येऽवर्माणो अमित्रा ये च वर्मिणः। सर्वांस्ताँ अर्बुदे हताञ्छ्वानोऽदन्तु भूम्याम् ॥
स्वर रहित पद पाठये । वर्मिण: । ये । अवर्माण: । अमित्रा: । ये । च । वर्मिण: । सर्वान् । तान् । अर्बुदे । हतान् । श्वान: । अदन्तु । भूम्याम् ॥१२.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३−(ये) (वर्मिणः) शस्त्रवारककवचविशेषेण युक्ताः (ये) (अवर्माणः) वर्मरहिताः (अमित्राः) शत्रवः (ये) (वर्मिणः) कवचवर्मव्यतिरिक्तेण शस्त्रनिवारकेण तनुत्राणेन युक्ताः (सर्वान्) (तान्) (अर्बुदे) अ० ११।९।१। हे शूरसेनापते (हतान्) मारितान् (श्वानाः) कुक्कुराः (अदन्तु) भक्षयन्तु (भूम्याम्) रणभूमौ ॥
इस भाष्य को एडिट करें