अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 4
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - विराडनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
अ॒न्तर्धे॑हि जातवेद॒ आदि॑त्य॒ कुण॑पं ब॒हु। त्रिष॑न्धेरि॒यं सेना॒ सुहि॑तास्तु मे॒ वशे॑ ॥
स्वर सहित पद पाठअ॒न्त: । धे॒हि॒ । जा॒त॒ऽवे॒द॒: । आदि॑त्य । कुण॑पम् । ब॒हु । त्रिऽसं॑धे: । इ॒यम् । सेना॑ । सुऽहि॑ता । अ॒स्तु॒ । मे॒ । वशे॑ ॥१२.४॥
स्वर रहित मन्त्र
अन्तर्धेहि जातवेद आदित्य कुणपं बहु। त्रिषन्धेरियं सेना सुहितास्तु मे वशे ॥
स्वर रहित पद पाठअन्त: । धेहि । जातऽवेद: । आदित्य । कुणपम् । बहु । त्रिऽसंधे: । इयम् । सेना । सुऽहिता । अस्तु । मे । वशे ॥१२.४॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(अन्तर्) रणक्षेत्रमध्ये (धेहि) धर (जातवेदः) जातानि प्रशस्तानि वेदांसि ज्ञानानि यस्य तत्संबुद्धौ (आदित्य) अ० ११।९।२५। अखण्डब्रह्मचारिन् (कुणपम्) अ० ११।९।१०। शवशरीरजातम् (बहु) बहुलम् (त्रिषन्धेः) म० २। सेनापतेः (इयम्) दृश्यमाना (सेना) (सुहिता) सुष्ठु धृता। सुव्यूढा (अस्तु) (मे) मम (वशे) प्रभुत्वे ॥
इस भाष्य को एडिट करें