Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 6
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    शि॑तिप॒दी सं द्य॑तु शर॒व्ये॒यं चतु॑ष्पदी। कृत्ये॒ऽमित्रे॑भ्यो भव॒ त्रिष॑न्धेः स॒ह सेन॑या ॥

    स्वर सहित पद पाठ

    शि॒ति॒ऽप॒दी । सम् । द्य॒तु॒ । श॒र॒व्या᳡ । इ॒यम् । चतु॑:ऽपदी । कृत्ये॑ । अ॒मित्रे॑भ्य: । भ॒व॒ । त्रिऽसं॑धे: । स॒ह । सेन॑या ॥१२.६॥


    स्वर रहित मन्त्र

    शितिपदी सं द्यतु शरव्येयं चतुष्पदी। कृत्येऽमित्रेभ्यो भव त्रिषन्धेः सह सेनया ॥

    स्वर रहित पद पाठ

    शितिऽपदी । सम् । द्यतु । शरव्या । इयम् । चतु:ऽपदी । कृत्ये । अमित्रेभ्य: । भव । त्रिऽसंधे: । सह । सेनया ॥१२.६॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 6

    टिप्पणीः - ६−(शितिपदी) अ० ३।२९।१। कुम्भपदीषु च। पा० ५।४।१३९। पादस्य लोपो ङीप् च। पादः पत्। पा० ६।३।१३–०। पदादेशः। शितिः शुक्लः कृष्णश्च तयोर्मध्ये पादो गमनं तस्याः सा तथाभूता। प्रकाशान्धकारमध्यगतिशीला सेना (सम्) सम्यक् (द्यतु) दो अवखण्डने। छिनत्तु (शरव्या) अ० ३।१९।८। तत्र साधुः। पा० ४।४।९८। शरु-यत्। शरौ वाणविद्यायां कुशला (इयम्) (चतुष्पदी) अ० ९।१०।२१। चतुर्वर्गे धर्मार्थकाममोक्षेषु पुरुषार्थेषु पदमधिकारो यस्याः सा (कृत्ये) अ० ४।९।५। ऋदुपधाच्चाक्लृपिचृतेः। पा० ३।१।११०। कृती छेदने-क्यप्। हे छेदनशीले। (अमित्रेभ्यः) क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इति चतुर्थी। शत्रून् नाशयितुम् (भव) वर्तस्व (त्रिषन्धेः) म० २। कर्मोपासनाज्ञानेषु कुशलस्य सेनापतेः (सह) (सेनया) ॥

    इस भाष्य को एडिट करें
    Top