अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - विराट्पथ्या बृहती
सूक्तम् - शत्रुनाशन सूक्त
उत्ति॑ष्ठत॒ सं न॑ह्यध्व॒मुदा॑राः के॒तुभिः॑ स॒ह। सर्पा॒ इत॑रजना॒ रक्षां॑स्य॒मित्रा॒ननु॑ धावत ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । उत्ऽआ॑रा: । के॒तुऽभि॑: । स॒ह । सर्पा॑: । इत॑रऽजना: । रक्षां॑सि । अ॒मित्रा॑न् । अनु॑ । धा॒व॒त॒ ॥१२.१॥
स्वर रहित मन्त्र
उत्तिष्ठत सं नह्यध्वमुदाराः केतुभिः सह। सर्पा इतरजना रक्षांस्यमित्राननु धावत ॥
स्वर रहित पद पाठउत् । तिष्ठत । सम् । नह्यध्वम् । उत्ऽआरा: । केतुऽभि: । सह । सर्पा: । इतरऽजना: । रक्षांसि । अमित्रान् । अनु । धावत ॥१२.१॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(उत् तिष्ठत) उद्गच्छत (संनह्यध्वम्) सन्नाहान् धरत (उदाराः) महान्तः। महानुभविनः (केतुभिः) ध्वजैः (सह) (सर्पाः) सर्पतुल्यहिंसकाः (इतरजनाः) पामरपुरुषाः (रक्षांसि) राक्षसाः (अमित्रान्) शत्रून् (अनु) प्रति (धावत) शीघ्रं गच्छत ॥
इस भाष्य को एडिट करें