अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 25
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - ककुबुष्णिक्
सूक्तम् - शत्रुनाशन सूक्त
स॒हस्र॑कुणपा शेतामामि॒त्री सेना॑ सम॒रे व॒धाना॑म्। विवि॑द्धा कक॒जाकृ॑ता ॥
स्वर सहित पद पाठस॒हस्र॑ऽकुणपा । शे॒ता॒म् । आ॒मि॒त्री । सेना॑ । स॒म्ऽअ॒रे । व॒धाना॑म् । विऽवि॑ध्दा । क॒क॒जाऽकृ॑ता ॥१२.२५॥
स्वर रहित मन्त्र
सहस्रकुणपा शेतामामित्री सेना समरे वधानाम्। विविद्धा ककजाकृता ॥
स्वर रहित पद पाठसहस्रऽकुणपा । शेताम् । आमित्री । सेना । सम्ऽअरे । वधानाम् । विऽविध्दा । ककजाऽकृता ॥१२.२५॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 25
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २५−(सहस्रकुणपा) असंख्यातशवयुक्ता (शेताम्) (आमित्री) अमित्र-अण्। शात्रवी (सेना) (समरे) युद्धे। प्रहारे (वधानाम्) आयुधानाम् (विविद्धा) विविधं ताडिता (ककजाकृता) कक+जा+कृता। कक गर्वे चापल्ये तृष्णायां च-अच्। जन जनने ड प्रत्ययो भावे, टाप्। कृञ् हिंसायाम् क, टाप्। ककस्य पिपासाया जया उत्पत्या कृता हिंसिता ॥
इस भाष्य को एडिट करें