अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 3
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - विराडास्तारपङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
अयो॑मुखाः सू॒चीमु॑खा॒ अथो॑ विकङ्क॒तीमु॑खाः। क्र॒व्यादो॒ वात॑रंहस॒ आ स॑जन्त्व॒मित्रा॒न्वज्रे॑ण॒ त्रिष॑न्धिना ॥
स्वर सहित पद पाठअय॑:ऽमुखा: । सू॒चीऽमु॑खा: । अथो॒ इति॑ । वि॒क॒ङ्क॒तीऽमु॑खा: । क्र॒व्य॒ऽअद॑: । वात॑ऽरंहस: । आ । स॒ज॒न्तु॒ । अ॒मित्रा॑न् । वज्रे॑ण । त्रिऽसं॑धिना ॥१२.३॥
स्वर रहित मन्त्र
अयोमुखाः सूचीमुखा अथो विकङ्कतीमुखाः। क्रव्यादो वातरंहस आ सजन्त्वमित्रान्वज्रेण त्रिषन्धिना ॥
स्वर रहित पद पाठअय:ऽमुखा: । सूचीऽमुखा: । अथो इति । विकङ्कतीऽमुखा: । क्रव्यऽअद: । वातऽरंहस: । आ । सजन्तु । अमित्रान् । वज्रेण । त्रिऽसंधिना ॥१२.३॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(अयोमुखाः) लोहसदृशकठोरमुखाः (सूचीमुखाः) सूचीतुल्यतीक्ष्णमुखाः (अथो) अपि च (विकङ्कतीमुखाः) भृमृदृशि०। उ० ३।११०। वि+ककि गतौ-अतच्। विकङ्कत एव विकङ्कती शमीवृक्षः। तत्तुल्यबहुकण्टकयुक्तमुखाः (क्रव्यादः) अ० २।२५।५। मांसभक्षकाः (वातरंहसः) वायुतुल्यवेगयुक्ताः पशुपक्षिणः (आ) समन्तात् (सजन्तु) षञ्ज सङ्गे। श्लिष्यन्तु (अमित्रान्) शत्रून् (वज्रेण) वज्रायुधेन, हतान् इति शेषः (त्रिषन्धिना) म० २। सेनापतिना ॥
इस भाष्य को एडिट करें