Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 27
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    यां दे॒वा अ॑नु॒तिष्ठ॑न्ति॒ यस्या॒ नास्ति॑ वि॒राध॑नम्। तयेन्द्रो॑ हन्तु वृत्र॒हा वज्रे॑ण॒ त्रिष॑न्धिना ॥

    स्वर सहित पद पाठ

    याम् । दे॒वा: । अ॒नु॒ऽतिष्ठ॑न्ति । यस्या॑: । न । अस्ति॑ । वि॒ऽराध॑नम् । तया॑ । इन्द्र॑: । ह॒न्तु॒ । वृ॒त्र॒ऽहा । वज्रे॑ण । त्रिऽसं॑धिना ॥१२.२७॥


    स्वर रहित मन्त्र

    यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम्। तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषन्धिना ॥

    स्वर रहित पद पाठ

    याम् । देवा: । अनुऽतिष्ठन्ति । यस्या: । न । अस्ति । विऽराधनम् । तया । इन्द्र: । हन्तु । वृत्रऽहा । वज्रेण । त्रिऽसंधिना ॥१२.२७॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 27

    टिप्पणीः - २७−(याम्) आहुतिम् (देवाः) विजिगीषवः (अनुतिष्ठन्ति) आचरन्ति (यस्याः) (न) (अस्ति) (विराधनम्) निष्फलता। असिद्धिः (तया) आहुत्या (इन्द्रः) परमैश्वर्यवान् पुरुषः (हन्तु) मारयतु (वृत्रहा) अन्धकारनाशकः (वज्रेण) वज्रद्वारा (त्रिषन्धिना) म० २। त्रयीकुशलेन सेनापतिना सह ॥

    इस भाष्य को एडिट करें
    Top