Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 2
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भातिजगती सूक्तम् - शत्रुनाशन सूक्त

    ई॒शां वो॑ वेद॒ राज्यं॒ त्रिष॑न्धे अरु॒णैः के॒तुभिः॑ स॒ह। ये अ॒न्तरि॑क्षे॒ ये दि॒वि पृ॑थि॒व्यां ये च॑ मान॒वाः। त्रिष॑न्धे॒स्ते चेत॑सि दु॒र्णामा॑न॒ उपा॑सताम् ॥

    स्वर सहित पद पाठ

    ई॒शाम् । व॒: । वे॒द॒ । राज्य॑म् । त्रिऽसं॑धे । अ॒रु॒णै: । के॒तुऽभि॑: । स॒ह । ये । अ॒न्तरि॑क्षे । ये । दि॒वि । पृ॒थि॒व्याम् । ये । च॒ । मा॒न॒वा: । त्रिऽसं॑धे: । ते । चेत॑सि । दु॒:ऽनामा॑न: । उप॑ । आ॒स॒ता॒म् ॥१२.२॥


    स्वर रहित मन्त्र

    ईशां वो वेद राज्यं त्रिषन्धे अरुणैः केतुभिः सह। ये अन्तरिक्षे ये दिवि पृथिव्यां ये च मानवाः। त्रिषन्धेस्ते चेतसि दुर्णामान उपासताम् ॥

    स्वर रहित पद पाठ

    ईशाम् । व: । वेद । राज्यम् । त्रिऽसंधे । अरुणै: । केतुऽभि: । सह । ये । अन्तरिक्षे । ये । दिवि । पृथिव्याम् । ये । च । मानवा: । त्रिऽसंधे: । ते । चेतसि । दु:ऽनामान: । उप । आसताम् ॥१२.२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 2

    टिप्पणीः - २−(ईशाम्) ईश ऐश्वर्ये-क, टाप्। शासनशक्तिम् (वः) आदरार्थं बहुवचनम्। युष्माकम् (वेद) अहं प्रजाजनो जानामि (राज्यम्) राज्यविस्तारम् (त्रिषन्धे) अ० ११।९।२३। त्रिषु कर्मोपासनाज्ञानेषु प्रीतिर्यस्य स त्रिषन्धिः हे त्रयीकुशल सेनापते (अरुणैः) रक्तवर्णैः। भयावहैरित्यर्थः (केतुभिः) ध्वजैः (सह) (ये) (अन्तरिक्षे) मध्यलोके (ये) (दिवि) सूर्ये (ये) (च) (मानवाः) तेन प्रोक्तम्। पा० ४।३।१०१। मनु-अण्। मनुभिर्ज्ञानिभिः प्रोक्ताः (त्रिषन्धेः) विदुषः पुरुषस्य (ते) पूर्वोक्ताः (चेतसि) अन्तःकरणे। ज्ञाने (दुर्णामानः) अ० ८।६।१। अतिक्रूरदोषाः (उप) उपोऽधिके च। पा० १।४।८७। इति हीनार्थे (आसताम्) तिष्ठन्तु ॥

    इस भाष्य को एडिट करें
    Top