अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 14
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
सर्वे॑ दे॒वा अ॒त्याय॑न्ति॒ ये अ॒श्नन्ति॒ वष॑ट्कृतम्। इ॒मां जु॑षध्व॒माहु॑तिमि॒तो ज॑यत॒ मामुतः॑ ॥
स्वर सहित पद पाठसर्वे॑ । दे॒वा: । अ॒ति॒ऽआय॑न्ति । ये । अ॒श्नन्ति॑ । वष॑ट्ऽकृतम् । इ॒माम् । जु॒ष॒ध्व॒म् । आऽहु॑तिम् । इ॒त: । ज॒य॒त॒ । मा । अ॒मुत॑: ॥१२.१४॥
स्वर रहित मन्त्र
सर्वे देवा अत्यायन्ति ये अश्नन्ति वषट्कृतम्। इमां जुषध्वमाहुतिमितो जयत मामुतः ॥
स्वर रहित पद पाठसर्वे । देवा: । अतिऽआयन्ति । ये । अश्नन्ति । वषट्ऽकृतम् । इमाम् । जुषध्वम् । आऽहुतिम् । इत: । जयत । मा । अमुत: ॥१२.१४॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(सर्वे) (देवाः) विजिगीषवः (अत्यायन्ति) इण् गतौ। मार्गानतिक्रम्यागच्छन्ति (ये) (अश्नन्ति) भुञ्जते (वषट्कृतम्) अ० ९।५।१३। भक्त्या निष्पादितम् (इमाम्) (जुषध्वम्) सेवध्वम् (आहुतिम्) भक्त्या समर्पणम्। अन्यद् गतम्-म० ९ ॥
इस भाष्य को एडिट करें