अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 20
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
शि॑तिप॒दी सं प॑तत्व॒मित्रा॑नाम॒मूः सिचः॑। मुह्य॑न्त्व॒द्यामूः सेना॑ अ॒मित्रा॑णां न्यर्बुदे ॥
स्वर सहित पद पाठशि॒ति॒ऽप॒दी । सम् । प॒त॒तु॒ । अ॒मित्रा॑णाम् । अ॒मू: । सिच॑: । मुह्य॑न्तु । अ॒द्य । अ॒मू: । सेना॑: । अ॒मित्रा॑णाम् । नि॒ऽअ॒र्बु॒दे॒ ॥१२.२०॥
स्वर रहित मन्त्र
शितिपदी सं पतत्वमित्रानाममूः सिचः। मुह्यन्त्वद्यामूः सेना अमित्राणां न्यर्बुदे ॥
स्वर रहित पद पाठशितिऽपदी । सम् । पततु । अमित्राणाम् । अमू: । सिच: । मुह्यन्तु । अद्य । अमू: । सेना: । अमित्राणाम् । निऽअर्बुदे ॥१२.२०॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(शितिपदी) म० ६। प्रकाशान्धकारमध्यगतिशीला सेना (सं पततु) झटिति प्राप्नोतु (अमित्राणाम्) शत्रूणाम् (अमूः) दृश्यमानाः (सिचः) अ० ११।९।१८। सेचनशीलाः। वर्धयित्रीः सेनाः (मुह्यन्तु) मूढा भवन्तु (अद्य) अस्मिन् दिने (अमूः) (सेनाः) (अमित्राणाम्) (न्यर्बुदे) अ० ११।९।४। हे नित्यपुरुषार्थिन् राजन् ॥
इस भाष्य को एडिट करें