अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 21
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ओदन सूक्त
यस्य॑ दे॒वा अक॑ल्प॒न्तोच्छि॑ष्टे॒ षड॑शी॒तयः॑ ॥
स्वर सहित पद पाठयस्य॑ । दे॒वा: । अक॑ल्पन्त । उत्ऽशि॑ष्टे । षट् । अ॒शी॒तय॑: ॥३.२१॥
स्वर रहित मन्त्र
यस्य देवा अकल्पन्तोच्छिष्टे षडशीतयः ॥
स्वर रहित पद पाठयस्य । देवा: । अकल्पन्त । उत्ऽशिष्टे । षट् । अशीतय: ॥३.२१॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 21
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २१−(यस्य) परमेश्वरस्य (देवाः) सूर्यादयो दिव्यलोकाः (अकल्पन्त) कृपू सामर्थ्ये-लङ्। रचिता अभवन् (उच्छिष्टे) शासु अनुशिष्टौ-क्त। शास इदङ्हलोः। पा० ६।४।३।४। उपधाया इकारः। शासिवसिघसीनां च। पा० ८।३।६०। इति षत्वम्। यद्वा शिष असर्वोपयागे-क्त। उच्छिष्टात् सर्वस्मादूर्ध्वं शिष्टात् परमेश्वरात् तत्सामर्थ्याच्च-इति दयानन्दकृतायाम् ऋग्वेदादिभाष्यभूमिकायां पृष्ठे १३६। सर्वोत्कृष्टे सामर्थ्ये। यद्वा प्रलयेऽप्यवशिष्टे। परिशिष्टे सामर्थ्ये (षट्) प्राच्यादिनीचोच्चषट्संख्याकाः (अशीतयः) अ० २।१२।४। वसेस्तिः उ० ४।१८०। अशू व्याप्तौ-ति, छान्दस इडागमो दीर्घश्च। व्यापिका दिशाः ॥
इस भाष्य को एडिट करें