अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 28
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - साम्नी बृहती
सूक्तम् - ओदन सूक्त
परा॑ञ्चं चैनं॒ प्राशीः॑ प्रा॒णास्त्वा॑ हास्य॒न्तीत्ये॑नमाह ॥
स्वर सहित पद पाठपरा॑ञ्चम् । च॒ । ए॒न॒म् । प्र॒ऽआशी॑: । प्रा॒णा: । त्वा॒ । हा॒स्य॒न्ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥३.२८॥
स्वर रहित मन्त्र
पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह ॥
स्वर रहित पद पाठपराञ्चम् । च । एनम् । प्रऽआशी: । प्राणा: । त्वा । हास्यन्ति । इति । एनम् । आह ॥३.२८॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 28
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २८−(पराञ्चम्) म० २६। दूरे गच्छन्तम् (च) चेत् (एनम्) ओदनम् (प्राशीः) म० २६। प्रकर्षेण भक्षितवानसि (प्राणाः) श्वासबलानि (त्वा) (हास्यन्ति) ओहाक् त्यागे। त्यक्ष्यन्ति (इति) एवम् (एनम्) जिज्ञासुम् (आह) ब्रूञ् व्यक्तायां वाचि लट्। ब्रवीति ॥
इस भाष्य को एडिट करें