अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 56
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - प्राजापत्या बृहती
सूक्तम् - ओदन सूक्त
न च॑ सर्वज्या॒निं जी॒यते॑ पु॒रैनं॑ ज॒रसः॑ प्रा॒णो ज॑हाति ॥
स्वर सहित पद पाठन । च॒ । स॒र्व॒ऽज्या॒निम् । जी॒यते॑ । पु॒रा । ए॒न॒म् । ज॒रस॑: । प्रा॒ण: । ज॒हा॒ति॒ ॥५.७॥
स्वर रहित मन्त्र
न च सर्वज्यानिं जीयते पुरैनं जरसः प्राणो जहाति ॥
स्वर रहित पद पाठन । च । सर्वऽज्यानिम् । जीयते । पुरा । एनम् । जरस: । प्राण: । जहाति ॥५.७॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 56
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५६−(न) निषेधे (च) अवधारणे (सर्वज्यानिम्) म० ५५। सर्वहान्या (जीयते) हीयते (पुरा) पुरस्तात् (एनम्) पुरुषम् (जरसः) अ० १।३०।२। जॄ स्तुतौ, यद्वा जॄष् वयोहानौ-असुन्। जरायाः स्तुतेर्वयोहानेर्वा सकाशात् (प्राणः) श्वासप्रश्वासव्यापारः (जहाति) त्यजति ॥
इस भाष्य को एडिट करें