अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 24
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - त्रिपदा प्राजापत्या बृहती
सूक्तम् - ओदन सूक्त
नाल्प॒ इति॑ ब्रूया॒न्नानु॑पसेच॒न इति॒ नेदं च॒ किं चेति॑ ॥
स्वर सहित पद पाठन । अल्प॑: । इति॑ । ब्रू॒या॒त् । न । अ॒नु॒प॒ऽसे॒च॒न: । इति॑ । न । इ॒दम् । च॒ । किम् । च॒ । इति॑ ॥३.२४॥
स्वर रहित मन्त्र
नाल्प इति ब्रूयान्नानुपसेचन इति नेदं च किं चेति ॥
स्वर रहित पद पाठन । अल्प: । इति । ब्रूयात् । न । अनुपऽसेचन: । इति । न । इदम् । च । किम् । च । इति ॥३.२४॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 24
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३, २४−(सः) योगिजनः (यः) (ओनदस्य) सुखवर्षकस्यान्नरूपस्य परमात्मनः (महिमानम्) महत्त्वम् (विद्यात्) जानीयात् (न) निषेधे (अल्पः) न्यूनः (इति) वाक्यसमाप्तौ (ब्रूयात्) वदेत् (न) न ब्रूयात् (अनुपसेचनः) षिच सेके-ल्युट्। उपसेचनेन वर्धनेन रहितः (इति) (न) निषेधे (इदम्) निर्दिष्टम् ब्रह्म (च च) (किम् च) किंचन (इति) ॥
इस भाष्य को एडिट करें