अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 5
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - साम्न्युष्णिक्
सूक्तम् - ओदन सूक्त
अश्वाः॒ कणा॒ गाव॑स्तण्डु॒ला म॒शका॒स्तुषाः॑ ॥
स्वर सहित पद पाठअश्वा॑: । कणा॑: । गाव॑: । त॒ण्डु॒ला: । म॒शका॑: । तुषा॑: ॥३.५॥
स्वर रहित मन्त्र
अश्वाः कणा गावस्तण्डुला मशकास्तुषाः ॥
स्वर रहित पद पाठअश्वा: । कणा: । गाव: । तण्डुला: । मशका: । तुषा: ॥३.५॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(अश्वाः) मार्गव्यापिनो घोटकाः (कणाः) क्षुद्रांशाः (गावः) गवादिजन्तवः (तण्डुलाः) अ० १०।९।२६। तुषरहिता व्रीहयः (मशकाः) अ० ४।२६।९। दशकाः (तुषाः) धान्यत्वचाः ॥
इस भाष्य को एडिट करें