अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 7
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ओदन सूक्त
श्या॒ममयो॑ऽस्य मां॒सानि॒ लोहि॑तमस्य॒ लोहि॑तम् ॥
स्वर सहित पद पाठश्या॒मम् । अय॑: । अ॒स्य॒ । मां॒सानि॑ । लोहि॑तम् । अ॒स्य॒ । लोहि॑तम् ॥३.७॥
स्वर रहित मन्त्र
श्याममयोऽस्य मांसानि लोहितमस्य लोहितम् ॥
स्वर रहित पद पाठश्यामम् । अय: । अस्य । मांसानि । लोहितम् । अस्य । लोहितम् ॥३.७॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(श्यामम्) इषियुधीन्धिदसिश्या०। उ० १।१४५। श्यैङ् गतौ-मक् कृष्णवर्णम् (अयः) इण् गतौ-असुन्। लौहः। धातुभेदः (अस्य) पूर्वोक्तस्य परमेश्वरस्य (मांसानि) मांसावयवाः (लोहितम्) रक्तवर्णम्। अयः। ताम्रमित्यर्थः (अस्य) (लोहितम्) रुधिरम् ॥
इस भाष्य को एडिट करें