अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 9
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - आसुर्यनुष्टुप्
सूक्तम् - ओदन सूक्त
खलः॒ पात्रं॒ स्फ्यावंसा॑वी॒षे अ॑नू॒क्ये ॥
स्वर सहित पद पाठखल॑: । पात्र॑म् । स्फ्यौ । अंसौ॑ । इ॒षे इति॑ । अ॒नू॒क्ये॒३॒ इति॑ ॥३.९॥
स्वर रहित मन्त्र
खलः पात्रं स्फ्यावंसावीषे अनूक्ये ॥
स्वर रहित पद पाठखल: । पात्रम् । स्फ्यौ । अंसौ । इषे इति । अनूक्ये३ इति ॥३.९॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(खलः) धान्यमर्दनस्थानम् (पात्रम्) अमत्रम् (स्फ्यौ) माछाससिभ्यो यः। उ० ४।१०९। स्फायी वृद्धौ-य, स च डित्। प्रवृद्धौ काष्ठकीलकौ (अंसौ) स्कन्धौ (ईषे) अ० २।८।४। ईष गतौ-क, टाप्। लाङ्गलदण्डौ (अनूक्ये) अ० २।३३।२। अनु+उच समवाये-ण्यत्, टाप्। पृष्ठास्थिनी ॥
इस भाष्य को एडिट करें