अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 13
सूक्त - ब्रह्मा
देवता - आयु
छन्दः - त्रिपदा भुरिङ्महाबृहती
सूक्तम् - दीर्घायु सूक्त
बो॒धश्च॑ त्वा प्रतीबो॒धश्च॑ रक्षतामस्व॒प्नश्च॑ त्वानवद्रा॒णश्च॑ रक्षताम्। गो॑पा॒यंश्च॑ त्वा॒ जागृ॑विश्च रक्षताम् ॥
स्वर सहित पद पाठबो॒ध: । च॒ । त्वा॒ । प्र॒ति॒ऽबो॒ध: । च॒ । र॒क्ष॒ता॒म् । अ॒स्व॒प्न: । च॒ । त्वा॒ । अ॒न॒व॒ऽद्रा॒ण: । च॒ । र॒क्ष॒ता॒म् । गो॒पा॒यन् । च॒ । त्वा॒ । जागृ॑वि: । च॒ । र॒क्ष॒ता॒म् ॥१.१३॥
स्वर रहित मन्त्र
बोधश्च त्वा प्रतीबोधश्च रक्षतामस्वप्नश्च त्वानवद्राणश्च रक्षताम्। गोपायंश्च त्वा जागृविश्च रक्षताम् ॥
स्वर रहित पद पाठबोध: । च । त्वा । प्रतिऽबोध: । च । रक्षताम् । अस्वप्न: । च । त्वा । अनवऽद्राण: । च । रक्षताम् । गोपायन् । च । त्वा । जागृवि: । च । रक्षताम् ॥१.१३॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(बोधः) विवेकः (च) समुच्चये (त्वा) त्वाम् (प्रतीबोधः) चेतना (च) निश्चयेन (रक्षताम्) पालयताम् (अस्वप्नः) अनिद्रः (च) (त्वा) (अनवद्राणः) द्रा स्वप्ने पलायने च−क्र। संयोगादेर्धातोर्यण्वतः। पा० ८।२।४३। तस्य नः। पलायमानः (गोपायन्) गोपायिता (जागृविः) अ० ५।३०।१०। जागरूकः। अन्यत्सुगमम् ॥
इस भाष्य को एडिट करें