अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 15
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
जी॒वेभ्य॑स्त्वा स॒मुदे॑ वा॒युरिन्द्रो॑ धा॒ता द॑धातु सवि॒ता त्राय॑माणः। मा त्वा॑ प्रा॒णो बलं॑ हासी॒दसुं॒ तेऽनु॑ ह्वयामसि ॥
स्वर सहित पद पाठजी॒वेभ्य॑: । त्वा॒ । स॒म्ऽउदे॑ । वा॒यु: । इन्द्र॑: । धा॒ता । द॒धा॒तु॒ । स॒वि॒ता । त्राय॑माण: । मा । त्वा॒ । प्रा॒ण: । बल॑म् । हा॒सी॒त् । असु॑म् । ते॒ । अनु॑ । ह्व॒या॒म॒सि॒ ॥१.१५॥
स्वर रहित मन्त्र
जीवेभ्यस्त्वा समुदे वायुरिन्द्रो धाता दधातु सविता त्रायमाणः। मा त्वा प्राणो बलं हासीदसुं तेऽनु ह्वयामसि ॥
स्वर रहित पद पाठजीवेभ्य: । त्वा । सम्ऽउदे । वायु: । इन्द्र: । धाता । दधातु । सविता । त्रायमाण: । मा । त्वा । प्राण: । बलम् । हासीत् । असुम् । ते । अनु । ह्वयामसि ॥१.१५॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(जीवेभ्यः) जीवानां हिताय (त्वा) (समुदे) उङ् शब्दे-क्विप्, तुक् च, पृषोदरादित्वाद् दत्वम्। सम्यगुत्कर्षाय (वायुः) (इन्द्रः) मेघः (धाता) पोषकः (दधातु) पोषयतु (त्वा) (प्राणः) आत्मबलम् (बलम्) शरीरबलम् (मा हासीत्) ओहाक् त्यागे-लुङ्। मा त्याक्षीत् (असुम्) प्रज्ञाम् (ते) तुभ्यम् (अनु) निरन्तरम् (ह्वयामसि) आह्वयामः ॥
इस भाष्य को एडिट करें