Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 10
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - त्रिष्टुप् सूक्तम् - दीर्घायु सूक्त

    मैतं पन्था॒मनु॑ गा भी॒म ए॒ष येन॒ पूर्वं॒ नेयथ॒ तं ब्र॑वीमि। तम॑ ए॒तत्पु॑रुष॒ मा प्र प॑त्था भ॒यं प॒रस्ता॒दभ॑यं ते अ॒र्वाक् ॥

    स्वर सहित पद पाठ

    मा । ए॒तम् । पन्था॑म् । अनु॑ । गा॒: । भी॒म: । ए॒ष: । येन॑ । पूर्व॑म् । न । इ॒यथ॑ । तम् । ब्र॒वी॒मि॒ । तम॑: । ए॒तत् । पु॒रु॒ष॒ । मा । प्र । प॒त्था॒: । भ॒यम् । प॒रस्ता॑त् । अभ॑यम् । ते॒ । अ॒र्वाक् ॥१.१०॥


    स्वर रहित मन्त्र

    मैतं पन्थामनु गा भीम एष येन पूर्वं नेयथ तं ब्रवीमि। तम एतत्पुरुष मा प्र पत्था भयं परस्तादभयं ते अर्वाक् ॥

    स्वर रहित पद पाठ

    मा । एतम् । पन्थाम् । अनु । गा: । भीम: । एष: । येन । पूर्वम् । न । इयथ । तम् । ब्रवीमि । तम: । एतत् । पुरुष । मा । प्र । पत्था: । भयम् । परस्तात् । अभयम् । ते । अर्वाक् ॥१.१०॥

    अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 10

    टिप्पणीः - १०−(एतम्) प्रसिद्धम् (पन्थाम्) पन्थानम्। कुमार्गमित्यर्थः (अनु) निरन्तरम् (मा गाः) मा याहि (भीमः) भयानकः (एषः) कुमार्गः (येन) (पूर्वम्) अग्रे (न) निषेधे (इयथ) इण् गतौ-लिट्, छान्दसं रूपम्। इयेथ। गतवानसि (तम्) कुमार्गम् (ब्रवीमि) कथयामि (तमः) अन्धकारम् (एतत्) (पुरुष) (प्र) अग्रे (मा पत्थाः)-म० ४। पदनं गमनं मा कार्षीः (भयम्) (परस्तात्) परस्मिन् दूरदेशे, कुमार्ग इत्यर्थः (अभयम्) कुशलम् (ते) तुभ्यम् (अर्वाक्) अभिमुखम्। समीपम् ॥

    इस भाष्य को एडिट करें
    Top