अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 5
तुभ्यं॒ वातः॑ पवतां मात॒रिश्वा॒ तुभ्यं॑ वर्षन्त्व॒मृता॒न्यापः॑। सूर्य॑स्ते त॒न्वे॒ शं त॑पाति॒ त्वां मृ॒त्युर्द॑यतां॒ मा प्र मे॑ष्ठाः ॥
स्वर सहित पद पाठतुभ्य॑म् । वात॑: । प॒व॒ता॒म् । मा॒त॒रिश्वा॑ । तुभ्य॑म् । व॒र्ष॒न्तु॒ । अ॒मृता॑नि । आप॑: । सूर्य॑: । ते॒ । त॒न्वे᳡ । शम् । त॒पा॒ति॒ । त्वाम् । मृ॒त्यु: । द॒य॒ता॒म् । मा । प्र । मे॒ष्ठा॒: ॥१.५॥
स्वर रहित मन्त्र
तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्यापः। सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ॥
स्वर रहित पद पाठतुभ्यम् । वात: । पवताम् । मातरिश्वा । तुभ्यम् । वर्षन्तु । अमृतानि । आप: । सूर्य: । ते । तन्वे । शम् । तपाति । त्वाम् । मृत्यु: । दयताम् । मा । प्र । मेष्ठा: ॥१.५॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(तुभ्यम्) त्वदर्थम् (वातः) वायुः (पवताम्) शुद्धयतु (मातरिश्वा) अ० ५।१०।८। अन्तरिक्षसंचारी (तुभ्यम्) (वर्षन्तु) सिञ्चन्तु (अमृतानि) मृत्युनिवारकाणि वस्तूनि (आपः) जलधाराः (सूर्यः) (ते) तव (तन्वे) शरीराय (शम्) सुखम् (तपाति) लेटि, आडागमः (त्वाम्) (मृत्युः) (दयताम्) दय रक्षणे। पालयतु। (मा प्र मेष्ठाः) मीङ् हिंसायाम्-लुङ्। एकाच उपदेशेऽनुदात्तात्। पा० ७।२।१०। इट्प्रतिषेधः। हिंसितो दुःखितो भा भूः ॥
इस भाष्य को एडिट करें